गोत्रस्त्रियाः कुत्सने ण च

4-1-147 गोत्रस्त्रियाः कुत्सने ण च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् ठक्

Sampurna sutra

Up

index: 4.1.147 sutra: गोत्रस्त्रियाः कुत्सने ण च


'तस्य अपत्यम्' (इति) गोत्रस्त्रियाः कुत्सने ण ठक् च

Neelesh Sanskrit Brief

Up

index: 4.1.147 sutra: गोत्रस्त्रियाः कुत्सने ण च


गोत्रसंज्ञकं यत् स्त्रीलिङ्गवाचि अपत्यम्, तस्मात् 'तस्य अपत्यम्' अस्मिन् अर्थे अपत्यस्य निन्दायां गम्यमानायाम् 'ण' तथा 'ठक्' प्रत्ययौ भवतः ।

Kashika

Up

index: 4.1.147 sutra: गोत्रस्त्रियाः कुत्सने ण च


अपत्यं पौत्रप्रभृति गोत्रं गृह्यते। गोत्रं या स्त्री तदभिधायिनः शब्दादपत्ये णः प्रत्ययो भवति, चकाराट् ठक् च, कुत्सने गम्यमाने। पितुरसंविज्ञाने मात्रा व्यपदेशोऽपत्यस्य कुत्सा। गार्ग्याः अपत्यं गार्गः जाल्मः, गार्गिकः। ग्लुचुकायन्याः अपत्यं ग्लौचुकायनः, ग्लौचुकायनिकः। गोत्राद्यूनि इति यूनि प्रत्ययो भवति। गोत्रम् इति किम्? कारिकेयो जाल्मः। स्त्रियाः इति किम्? औपगविर्जाल्मः। कुत्सने इति किम्? गार्गेयो माणवकः।

Siddhanta Kaumudi

Up

index: 4.1.147 sutra: गोत्रस्त्रियाः कुत्सने ण च


गोत्रं या स्त्री तद्वाचकाच्छब्दाण्णठकौ स्तः कुत्सायाम् । सामर्थ्याद्यूनि । गार्ग्या अपत्यं गार्गः - गार्गिको वा जाल्मः । भस्याढे तद्धिते इति पुंवद्भावाद्गार्र्ग्यशब्दाण्णठकौ । यस्य-<{SK311}> इति लोपः । आपत्यस्य-<{SK1082}> इति यलोपः ॥

Balamanorama

Up

index: 4.1.147 sutra: गोत्रस्त्रियाः कुत्सने ण च


गोत्रस्त्रियाः कुत्सने ण च - गोत्रस्त्रियाः । 'ण' इति लुप्तप्रथमाकं चाट्ठगनुकृष्यते । तदाह — गोत्रं यास्त्रीत्यादिना । सामर्थ्यादिति । 'एको गोत्रे' इति नियमादिति भावः । गाग्र्या अपत्यमिति । गर्गस्य गोत्रापत्यं स्त्री गार्गी । 'गर्गादिभ्यः' इति यञ् ।यञश्चे॑ति ङीप् ।यस्येति चे॑त्यकारलोपः ।हलस्तद्धितस्ये॑ति यकारलोपः ।छ गाग्र्या अपत्यं युवेति विग्रहः । पितुरविज्ञानेमात्रा व्यपदेशः कुत्सनम् । यद्यपि णप्रत्यये ठक इकादेशे चयस्येति॑चे॑ति लोपे गार्ग गार्गिकः इति सिध्यति, तथापि वस्तुस्थितिमाह — पुंवद्भ्वादिति ।भस्याढे॑इत्यस्य तद्धिते विवक्षिते प्रवृत्तिमब्युपगम्य गाग्र्यशब्दादित्युक्तम् । तच्च समूहाधिकारेभिक्षादिभ्योऽ॑णित्यत्र स्फुटीभविष्यति । स्त्रियाः किम् । औपगवस्यापत्यं युवा औपगविः । प्रकरणादिगम्या कुत्सा । गोत्रेति किं । णस्य णित्त्वं तु ग्लुचुकायन्या अपत्यं युवा ग्लौचुकायन इत्यत्र वृद्ध्यर्थम् ।

Padamanjari

Up

index: 4.1.147 sutra: गोत्रस्त्रियाः कुत्सने ण च


पारिभाषिकस्य गोत्रस्य ग्रहणमित्याह - अपत्यं पौत्रेति । लौकिकस्य त्वपत्यमात्रस्य ग्रहणं न भवति, यदि स्यात्'तत्स्त्रियाः' इत्येव ब्रूयात्, तच्छब्देन प्रकृतस्यापत्यस्य परामर्शादेव तदर्थलाभात् । गार्ग इति । गार्गीशब्दो'यञश्च' इति ङीबन्तः, तस्य'भस्या' ढेअ तद्धितेऽ इति पुंवद्भावेन पुंशब्दस्यातिदेशात्गार्ग्यशब्दाद्गोत्रस्त्र्यभिधायिनः प्रत्ययः,'यस्येति च' , ठापत्यस्य च तद्धितेऽनातिऽ इत्यल्लोपयलौपौ । ग्लौचुकायन इति । ग्लुचुकस्यापत्यम्'प्राचामवृद्धात्फिन्बहुलम्' इति फिन्, ठितो मनुष्यजातेःऽ इति ङीष्, तस्य पुंवद्भावेन निवृत्तिः, ततः प्रत्ययः, णस्य णित्कणभत्र वृद्ध्यर्थम्, गार्ग्यादौ प्रकृतेरेव वृद्धत्वात् । इह तु वतण्डस्यापत्यं गोत्रं स्त्री,'वतण्डाच्च लुक् स्त्रियांम्' वतण्डी, तस्या अपत्यं वातण्डो जाल्म इति पुंवद्भावेन ङीनि निवृते'लुक्' स्त्रियाम्ऽ इत्यस्य'गोत्रे' लुगचिऽ इति प्रतिषेधाद्वातण्ड।ल्शब्दादेव प्रत्ययः । इह च गार्ग्या अपत्यं स्त्री गार्गा, सा भार्या यस्य स गार्गाभार्य इति'जातेश्च' इत्येव पुंवद्भावप्रतिषेधसिद्धिः,'गोत्रं च चरणैः सह' इत्यपत्यमात्रं गृह्यते, तेन वृद्धिनिमितस्य चेति पुंवद्भावप्रतिषेधो न प्रयोजनम् । किञ्च - गार्ग्या अपत्यं स्त्रीत्यत्रार्थे नास्ति प्रत्ययः, ठस्त्रियाम्ऽ इति युवसंज्ञाया निषेधाद्गोत्रसंज्ञैवावतिष्ठते, तत्र ठेको गोत्रेऽ इति नियमान्नैव गोत्रप्रत्ययान्तादपरो गोत्रप्रत्ययः सम्भवति, तेन नास्ति गार्गा, नतरां गार्गाभार्यः । अपर आह - अस्ति गार्गा, कथम् ? गार्ग्या अपत्यं या स्त्री न सा युवतिर्नापि गोत्रम्; न हि सा गर्गस्यापत्यं पौत्रप्रभृतेश्चापत्यस्य सोत्रसंज्ञा विधीयते, तदभावाद् ठेतो गोत्रेऽ इति नियमाभावः, ततश्च णस्य भावादस्ति गार्गेति । ये तु नास्ति गार्गेत्याहुः, तेन मन्यन्ते - मातृवंशः पितृवंशश्च द्वावपि वंशौ प्रतीयमपत्यं भवति; अपातहेतुत्वात् । ततश्च गार्ग्या अपत्यं यत्र स्त्री सा गर्गस्या पत्यं भवत्येव,'पौत्रप्रभृतिग्रहणं च व्यवहितापत्योपलक्षण्, तेन गर्गापेक्षया तस्या गोत्रत्वाद् ठेको गोत्रे' इति नियमात्प्रत्ययान्तराभाव इति । वृतौ तु क्वचित्पठ।ल्ते - गोत्राद्यौउनीति यूनि प्रत्ययो भवतीति । तदप्यस्मिन्नेव पक्षे घटते, तदाह - गार्ग्या अपत्यं पुमान्युवा भवति गार्गेयो माणवक इति । मातामहादेरुपलक्षणार्थोऽयं प्रयोग इति नास्ति कुत्सा ॥