4-1-145 व्यन् सपत्ने प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् भ्रातुः
index: 4.1.145 sutra: व्यन् सपत्ने
भ्रातुः सपत्ने व्यन्
index: 4.1.145 sutra: व्यन् सपत्ने
'शत्रु' इत्यस्य निर्देशं कर्तुम् 'भ्रातु'शब्दात् व्यन् प्रत्ययः भवति ।
index: 4.1.145 sutra: व्यन् सपत्ने
सपत्नशब्दः शत्रुपर्यायः शब्दान्तरव्युत्पन्नम् एव। सपत्नीशब्दादपरेऽकारम् इव अर्थे निपातयन्ति। सपत्नीव सपत्नः। भ्रातृशब्दाद् व्यन् प्रत्ययो भवति समुदायेन च इदम् इत्रः सपत्न उच्यते। अपत्यार्थोऽत्र न अस्त्येव। पाप्मना भ्रातृव्येण। भ्रातृव्यः कण्टकः।
index: 4.1.145 sutra: व्यन् सपत्ने
भ्रातुर्व्यन् स्यादपत्ये प्रकृतिप्रत्ययसमुदायेन शत्रौ वाच्ये । भ्रातृव्यः शत्रुः । पाप्मना भ्रातृव्येणेति तूपचारात् ॥
index: 4.1.145 sutra: व्यन् सपत्ने
व्यन् सपत्ने - व्यन्सपत्ने । अपत्ये इति । प्रत्ययेनाऽपत्यमुच्यते । भ्रातृशब्दार्थस्तु न विवक्षितः । तथाच भ्रातृशब्दोत्तरत्वे व्यन्प्रत्ययार्थः शत्रुरिति भाष्ये स्पष्टम् । ननुपाप्मना भ्रातृव्येणे॑ति कथं, पाप्मनोऽपत्यत्वाऽभावादित्यत आह — उपचारादिति । हिंसकत्वगुणयोगाल्लाक्षणिक इत्यर्थः ।
index: 4.1.145 sutra: व्यन् सपत्ने
ननु च'नित्यं सपत्न्यादिषु' इति सपत्नीशब्द एव स्त्रीलिङ्गो व्युत्पादितः, तत्कथं पुंल्लिङ्गस्य प्रयोगस्तत्राह - सपत्नशब्द इत्यादि । इवार्थ इति । सादृश्ये, यथा पत्नी दुः खहेतुस्तथा शत्त्रुरपीत्येतत्सादृश्यम् । समुदायेन चेदिति । एतेन समुदायार्थः सपत्नो न प्रकृत्यर्थः, नापि प्रत्ययार्थविशेषणम्, अनर्थकावेवात्र प्रकृतिप्रत्ययाविति दर्शयति । अथानुवृतस्यापत्यस्य विशेषणमेव सपत्नः कस्मान्न भवति ? तत्राह - अपत्यार्थोऽत्र नास्त्येवेति । एतदेवोदाहरणेन स्पष्टयति - पाप्मना भ्रातृव्येणेति । न हि पाप्मा भ्रातुष्पुत्रो भवति, अतः सपत्नमात्रे भ्रातृव्यशब्दस्य दर्शनादपत्यार्थोऽत्र नास्ति । किञ्च, योऽपि सपत्नो भ्रातुरपत्यं सम्भवति, सोऽप्याद्यौदाताद् भ्रातृव्यशब्दात्सपत्नरूपेणैव प्रतीयते, नापत्यरूपेण । तथा च भ्रातृव्यो भ्रातृव्य इति सहप्रयोगोऽपि व्यन्व्यदन्तयोर्भवति, अतः सुष्ठूअक्तम् - ठपत्यार्थो नास्त्येवऽ इति ॥