4-1-144 भ्रातुः व्यत् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् छः
index: 4.1.144 sutra: भ्रातुर्व्यच्च
'तस्य अपत्यम्' (इति) भ्रातुः छः व्यत् च
index: 4.1.144 sutra: भ्रातुर्व्यच्च
'तस्य अपत्यम्' अस्मिन् अर्थे 'भ्रातृ'शब्दात् 'छ' तथा 'व्यत्' प्रत्ययौ भवतः ।
index: 4.1.144 sutra: भ्रातुर्व्यच्च
भ्रातृशब्दादपत्ये व्यत् प्रत्ययो भवति। चकाराच् छश्च। अणोऽपवादः। भ्रातृव्यः, भ्रात्रीयः। तकारः स्वरार्थः।
index: 4.1.144 sutra: भ्रातुर्व्यच्च
चाच्छः । अणोऽपवादः । भ्रातृव्यः - भ्रात्रीयः ॥
index: 4.1.144 sutra: भ्रातुर्व्यच्च
भ्रातुर्व्यच्च - भ्रातुव्र्यच्च । तकारःतित्स्वरित॑मिति स्वरार्थ इति बोध्यम् ।