4-1-143 स्वसुः छः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्
'तस्य अपत्यम्' (इति) स्वसुः छः
'तस्य अपत्यम्' अस्मिन् अर्थे 'स्वसृ'शब्दात् छ-प्रत्ययः भवति ।
स्वसृशब्दादपत्ये छः प्रत्ययो भवति। अणोऽपवादः। स्वसुरपत्यं स्वस्रीयः॥
स्वस्त्रीयः ॥
<<स्वसुश्छः>> - स्वसुश्छः । 'अपत्ये' इति शेषः । स्वस्त्रीय इति । छस्य ईयादेशः, ऋकारस्य यण् ।