4-1-141 महाकुलात् अञ्खञौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् अपूर्वपदात् अन्यतरस्यां
index: 4.1.141 sutra: महाकुलादञ्खञौ
'तस्य अपत्यम्' (इति) महाकुलात् अन्यतरस्यामञ्-खञौ
index: 4.1.141 sutra: महाकुलादञ्खञौ
'तस्य अपत्यम्' अस्मिन् अर्थे 'महाकुल'शब्दात् विकल्पेन 'अञ्' तथा 'खञ्' प्रत्ययौ भवतः ।
index: 4.1.141 sutra: महाकुलादञ्खञौ
अन्यतरस्याम् इति अनुवर्तते। महाकुलशब्दातञ्खञौ प्रत्ययौ भवतः। पक्षे खः। माहाकुलः, माहाकुलीनः, माहाकुलीनः।
index: 4.1.141 sutra: महाकुलादञ्खञौ
अन्यतरस्याम् इत्यनुवर्तते । पक्षे खः । माहाकुलः - माहाकुलीनः - महाकुलीनः ॥
index: 4.1.141 sutra: महाकुलादञ्खञौ
महाकुलादञ्खञौ - महाकुलादञ्खञौ । अनुवर्तत इति । अन्यथा महाविभाषाधिकारे अपवादेन मुक्ते उत्सर्गस्याऽप्रवृकत्तेः पीलाया वे॑त्यत्रोक्तत्वात्पूर्वसूत्रोक्तः खो न स्यादिति भावः । तदाह — पक्षे ख इति । तथा सति आदिवृद्धिर्नेति भावः ।