अपूर्वपदादन्यतरस्यां यड्ढकञौ

4-1-140 अपूर्वपदात् अन्यतरस्यां यड्ढकञौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् कुलात्

Sampurna sutra

Up

'तस्य अपत्यम्' (इति) अपूर्वपदात् कुलात् अन्यतरस्याम् यत्-ढकञौ

Neelesh Sanskrit Brief

Up

यस्य 'कुल'शब्दस्य पूर्वपदं न विद्यते, तादृशात् 'कुल'शब्दात् 'तस्य अपत्यम्' अस्मिन् अर्थे विकल्पेन 'यत्' तथा 'ढकञ्' प्रत्ययौ भवतः ।

Kashika

Up

कुलादित्येव। अविद्यमानं पूर्वपदं यस्य तदपूर्वपदम्। समाससंबन्धिपूर्वपदस्याभावेन कुलशब्दो विशेष्यते। अपूर्वपदात् कुलशब्दादन्यतरस्यां यत् ढकञ् इत्येतौ प्रत्ययौ भवतः। ताभ्यां मुक्ते खोऽपि भवति। कुल्यः, कौलेयकः, कुलीनः। पदग्रहणं किम् ? बहुच्पूर्वादपि यथा स्यात्। बहुकुल्यः, बाहुकुलेयकः, बहुकुलीनः॥

Siddhanta Kaumudi

Up

कुलात् इत्येव । पक्षे खः । कुल्यः - कौलेयकः - कुलीनः । पदग्रहणं किम् ? बहुकुल्यः - बीहुकुलेयकः - बहुकुलीनः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अपूर्वपदादन्यतरस्यां यड्ढकञौ>> - अपूर्वपदादन्यतरस्याम् । कुलादित्येवेति । पूर्वपदरहितात्कुलादपत्ये यड्ढकञौ वा स्त इत्यर्थः । पक्षे ख इति । यड्ढकञोरभावपक्षे इत्यर्थः । बहुकुल्य इति 'विभाषा सुपः' इति बहुच्प्रत्ययो न पदम् । अतः पूर्वपदरहितत्वाद्यड्ढकञ्खा भवन्त्येवेत्यर्थः ।

Padamanjari

Up

ननु च पूर्वपदशब्दः समासावयवे रूढः, न स्य कुलशब्दे प्रसङ्गः ? इत्यत आह - समाससम्बन्धिन इत्यादि । समाससम्बन्धिपूर्वपदं कुलशब्दस्यापि कथञ्चित्सम्बन्धि भवति, द्वयोरप्येकसमासावयवत्वात् । व्यवस्थावचनस्तु नैवात्र शङ्कनीयः; पूर्वपदसभ्दस्य समासावयवे रूढत्वात् । तेन'देवदतः कुलीनः' इत्यादौ वाक्ये प्रतिषेधशङ्का न कार्या । बहुच्पूर्वादपीति । अपूर्वादित्युच्यमाने बहुकुलशब्दो बहुचा सपूर्व इति, ततः प्रत्ययो न स्यात् । किञ्च - देवदतः कुलीन इत्यादावपि प्रतिषेधः स्यात् । तस्माद्रूढिपरिग्रहार्थमपि पदग्रहणं कर्तव्यम् ॥