गृष्ट्यादिभ्यश्च

4-1-136 गृष्ट्यादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् ढञ्

Sampurna sutra

Up

'तस्य अपत्यम्' (इति) गृष्ट्यादिभ्यः ढञ्

Neelesh Sanskrit Brief

Up

'तस्य अपत्यम्' अस्मिन् अर्थे गृष्ट्यादिगणस्य शब्देभ्यः ढञ्-प्रत्ययः भवति ।

Kashika

Up

गृष्ट्यादिभ्यः शब्देभ्योऽपत्ये ढञ् प्रत्ययो भवति। अणादीनामपवादः। गार्ष्टेयः। हार्ष्टेयः। गृष्टिशब्दो यश्चतुष्पाद्वचनः, ततः पूर्वेणैव सिद्धः। अचतुष्पादर्थं वचनम्॥ गृष्टि। हृष्टि। हलि। बलि। विश्रि। कुद्रि। अजबस्ति। मित्रयु॥

Siddhanta Kaumudi

Up

एभ्यो ढञ्स्यात् । अण्ढकोरपवादः । गार्ष्टेयः । मित्रयोरपत्यम् । ऋष्यणि प्राप्ते ढञ् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गृष्ट्यादिभ्यश्च>> - गृष्टआदिभ्यश्च । अण्ढकोरिति । गृष्टि, हलि, बलि, कुठि, अगस्ति, मित्रयु एते गृष्टआदयः । अत्राऽन्त्ययोरृषित्वादण्प्राप्तः ।अन्येभ्यस्तु 'इतश्चाऽनिञः' इति ढक्प्राप्त इति विवेकः । सकृत्प्रसूता मानुष्यादिरपि गृष्टिः, नतु गोरेव । ततश्च 'चतुष्पाद्भ्यः' इत्यनेन न प्राप्तिः ।

Padamanjari

Up

अणादीनामिति । आदिशब्देन ढकः । बहुवचनं तु प्रकृतिभेदेन तयोरेव बहुत्वात् तत्राजबस्ति-मित्रयुशब्दयोरणोऽपवादः, शेषाणाम् ठितश्चानिञःऽ इति ढकः । गृष्टिशब्दो य इति । सकृत्प्रसूता स्त्री सर्वेव गृष्टिर्न धेव्नादिश्चतुष्पादेवेति भावः । अपर आह - सकृत्प्रसूतत्वसाधर्म्येणाचतुष्पदीष्वपि गौणो गृष्टिशब्द इति ॥