मातृष्वसुश्च

4-1-134 मातृष्वसुः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् छण् ढकि लोपः

Sampurna sutra

Up

'तस्य अपत्यम्' (इति) मातृष्वसुः छण्, ढकि लोपः च

Neelesh Sanskrit Brief

Up

'तस्य अपत्यम्' अस्मिन् अर्थे 'मातृष्वसृ' शब्दात् ढक्-प्रत्ययः भवति, तथा ढक्-प्रत्यये कृते 'मातृष्वसृ'शब्दस्य (अन्तिमवर्णस्य) लोपः भवति ।

Kashika

Up

पितृष्वसुरित्येतदपेक्षते, पितृष्वसुर्यदुक्तं तद् मातृष्वसुरपि भवति। छण्प्रत्ययो ढकि लोपश्च। मातृष्वस्रीयः, मातृष्वसेयः॥

Siddhanta Kaumudi

Up

पितृष्वसुर्यदुक्तं तदस्यापि स्यात् । मातृष्वस्त्रीयः । मातृष्वसेयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<मातृष्वसुश्च>> - मातृष्वसुश्चा । चकाराच्छण्, ढकि लोपश्चानुकृष्यते । तदाह — पितृष्वसुर्यदुक्तमिति ।

Padamanjari

Up

पितृष्वसुरित्येतपेक्ष्यते इति । चकारेणानुकृष्यत इत्यर्थः । तदनुवृतौ योऽर्थः सम्पद्यते, तं दर्शयति - पितृष्वसुर्यदुक्तमिति । किं पुनस्तदित्याह - च्छण् प्रत्ययो ढकि लोपश्चेति । तेन ठनन्तरस्य विधिर्वा भवति प्रति षेधो वाऽ इति ढकि लोप एव प्राप्नोति, न तु च्छणिति न चोदनीयमिति भावः ॥