4-1-133 ढकि लोपः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् पितृष्वसुः छण्
index: 4.1.133 sutra: ढकि लोपः
'तस्य अपत्यम्' (इति) पितृष्वसुः ढकि लोपः
index: 4.1.133 sutra: ढकि लोपः
'तस्य अपत्यम्' अस्मिन् अर्थे 'पितृष्वसृ'शब्दात् ढक्-प्रत्ययः भवति, तथा ढक्-प्रत्यये कृते 'पितृष्वसृ'शब्दस्य (अन्तिमवर्णस्य) लोपः भवति ।
index: 4.1.133 sutra: ढकि लोपः
पितृष्Vअसुः अपत्यप्रत्यये ढकि परतो लोपो भवति। पैतृष्वसेयः। कथं पुनरिह ढक् प्रत्ययः? एतदेव ज्ञापकं ढको भावस्य।
index: 4.1.133 sutra: ढकि लोपः
पितृष्वसुरन्त्यलोपः स्याड्ढकि । अत एव ज्ञापकाड्ढक् । पैतृष्वसेयः ॥
index: 4.1.133 sutra: ढकि लोपः
ढकि लोपः - ढकि लोपः ।पितृष्वसु॑रित्यनुवर्तते । अलोऽन्त्यपरिबाषयाऽन्त्यस्य लोपः । तदाह — पितृष्वसुरन्त्यस्य लोप इति । ननु पितृष्लसुरपत्ये ढक एक दुर्लभत्वात्कथं तस्मिन्परे लोपविधिरित्यत आह — अत #एवेति । शुब्राआदित्वाड्ढगित्यन्ये । पैतृष्वसेय इति । ढकि अन्त्यस्य ऋकारस्य लोपे आदिवृद्धिः ।मातृपितृभ्यां स्वसे॑ति षत्वम् ।
index: 4.1.133 sutra: ढकि लोपः
कथं पुनरित्यादि । ढग्विधौ टाबादिस्त्रीप्रत्ययान्तानां ग्रहणाच्छुभ्रादिष्वस्यापाठात् प्रश्नः । एतदेवेत्यादि । न ह्यसतो निमितभावः सम्भति ॥