ढकि लोपः

4-1-133 ढकि लोपः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् पितृष्वसुः छण्

Sampurna sutra

Up

'तस्य अपत्यम्' (इति) पितृष्वसुः ढकि लोपः

Neelesh Sanskrit Brief

Up

'तस्य अपत्यम्' अस्मिन् अर्थे 'पितृष्वसृ'शब्दात् ढक्-प्रत्ययः भवति, तथा ढक्-प्रत्यये कृते 'पितृष्वसृ'शब्दस्य (अन्तिमवर्णस्य) लोपः भवति ।

Kashika

Up

पितृष्वसुरपत्यप्रत्यये ढकि परतो लोपो भवति। पैतृष्वसेयः। कथं पुनरिह ढक् प्रत्ययः? एतदेव ज्ञापकं ढको भावस्य॥

Siddhanta Kaumudi

Up

पितृष्वसुरन्त्यलोपः स्याड्ढकि । अत एव ज्ञापकाड्ढक् । पैतृष्वसेयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ढकि लोपः>> - ढकि लोपः ।पितृष्वसु॑रित्यनुवर्तते । अलोऽन्त्यपरिबाषयाऽन्त्यस्य लोपः । तदाह — पितृष्वसुरन्त्यस्य लोप इति । ननु पितृष्लसुरपत्ये ढक एक दुर्लभत्वात्कथं तस्मिन्परे लोपविधिरित्यत आह — अत #एवेति । शुब्राआदित्वाड्ढगित्यन्ये । पैतृष्वसेय इति । ढकि अन्त्यस्य ऋकारस्य लोपे आदिवृद्धिः ।मातृपितृभ्यां स्वसे॑ति षत्वम् ।

Padamanjari

Up

कथं पुनरित्यादि । ढग्विधौ टाबादिस्त्रीप्रत्ययान्तानां ग्रहणाच्छुभ्रादिष्वस्यापाठात् प्रश्नः । एतदेवेत्यादि । न ह्यसतो निमितभावः सम्भति ॥