4-1-132 पितृष्वसुः छण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्
'तस्य अपत्यम्' (इति) पितृष्वसुः छण्
'तस्य अपत्यम्' अस्मिन् अर्थे 'पितृष्वसृ'शब्दात् छण् प्रत्ययः भवति ।
पितृष्वसृशब्दादपत्ये छण् प्रत्ययो भवति। अणोऽपवादः। पैतृष्वस्रीयः॥
अणोऽपवादः । पैतृष्वस्त्रीयः ॥
<<पितृष्वसुश्छण्>> - पितृष्वसुश्छण् । पैतृष्वस्त्रीय इति । पितृस्वसुरपत्यमिति विग्रहः । छस्य ईयादेशे आदिवृद्धिः । करारादृकारस्य यण् ।