क्षुद्राभ्यो वा

4-1-131 क्षुद्राभ्यः वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् ढ्रक्

Sampurna sutra

Up

'तस्य अपत्यम्' (इति) क्षुद्राभ्यः ढ्रक् वा

Neelesh Sanskrit Brief

Up

'तस्य अपत्यम्' अस्मिन् अर्थे क्षुद्रावाचिभ्यः शब्देभ्यः विकल्पेन ढ्रक् प्रत्ययः भवति ।

Kashika

Up

ढ्रगनुवर्तते, न आरक्। क्षुद्रा अङ्गहीनाः शीलहीनाश्च। अर्थधर्मेण तदभिधायिन्यः स्त्रीलिङ्गाः प्रकृतयो निर्दिश्यन्ते। क्षुद्राभ्यो वापत्ये ढ्रक् प्रत्ययो भवति। ढकोऽपवादः। काणेरः, काणेयः। दासेरः, दासेयः॥

Siddhanta Kaumudi

Up

अङ्गहीनाः शीलहीनाश्च क्षुद्रास्ताभ्यो वा ढ्रक् । पक्षे ढक् । काणेरः - काणेयः । दासेरः - दासेयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<क्षुद्राभ्यो वा>> - श्रुद्राभ्यो वा । अङ्गहीना इति । चक्षुरादिकतिपयावयवविकला इत्यर्थः । शीलहीना इति । सद्वृत्तहीना इत्यर्थः । यथेष्टपुरुषसंचारिण्य इति यावत् ।अनियतपुंस्का अङ्गहीना वा क्षुद्राः॑ इति भाष्यम् ।

Padamanjari

Up

अङ्गहीना इति । काणादयः । शीलहीना इति । अनियतपुंस्कादासीप्रभृतयः ॥