आरगुदीचाम्

4-1-130 आरक् उदीचाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोधायाः ढ्रक्

Sampurna sutra

Up

'तस्य अपत्यम्' (इति) गोधायाः उदीचामारक्

Neelesh Sanskrit Brief

Up

उदीचामाचार्याणां मतेन 'तस्य अपत्यम्' अस्मिन् अर्थे 'गोधा'शब्दात् आरक् प्रत्ययः भवति ।

Kashika

Up

गोधाया अपत्य उदीचामाचार्याणां मतेनारक् प्रत्ययो भवति। गौधारः। आचार्यग्रहणं पूजार्थम्, वचनसामर्थ्यादेव पूर्वेण समावेशो भविष्यति। आरग्वचनमनर्थकम्, रका सिद्धत्वात्? ज्ञापकं त्वयमन्येभ्योऽपि भवतीति। जाडारः। पाण्डारः॥

Siddhanta Kaumudi

Up

गौधारः । रका सिद्धे आकारोच्चारणमन्यते विधानार्थम् । जडस्यापत्यं जाडारः । पण्डस्यापत्यं पाण्डारः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<आरगुदीचाम्>> - आरगुदीचां । गोधाया आरग्वा स्यादित्यर्थः । अन्यत इति । आकारान्तादन्यत् अदन्तं, तस्मादपि क्वचिद्विधानार्थमित्यर्थः । जाडार इति । रग्विधौ आकारो न श्रूयेतेति भावः । पण्डो — नपुंसकः, तस्यापत्यं क्षेत्रजातत्वादिना ।

Padamanjari

Up

रका, सिद्धत्वादिति ।'न लक्षणेन पदाकारा अनुवर्त्याः' इत्यवग्रहेऽपि नास्ति विशेषः । ज्ञापकार्थं त्विति । भावप्रधानो ज्ञापकशब्दः । ज्ञापनार्थमिति वा पाठ।ल्म् । जाडारः, पाण्डारैति । ह्रस्वान्तादयं प्रत्यय इति रका नास्ति सिद्धिः ॥