4-1-129 गोधायाः ढ्रक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्
index: 4.1.129 sutra: गोधाया ढ्रक्
'तस्य अपत्यम्' (इति) गोधायाः ढ्रक्
index: 4.1.129 sutra: गोधाया ढ्रक्
'तस्य अपत्यम्' अस्मिन् अर्थे 'गोधा'शब्दात् ढ्रक्-प्रत्ययः भवति ।
index: 4.1.129 sutra: गोधाया ढ्रक्
गोधायाः अपत्ये ड्रक् प्रत्ययो भवति। गौधेरः। शुभ्रादिष्वयं पठ्यते, तेन गौधेयः अपि भवति।
index: 4.1.129 sutra: गोधाया ढ्रक्
गौधेरः । शुभ्रादित्वात्पक्षे ढक् । गौधेयः ॥
index: 4.1.129 sutra: गोधाया ढ्रक्
गोधाया ढ्रक् - गोधाया ढ्रक् । गौधेर इति । गोधाया अपत्यमिति विग्रहः । ढ्रकि ढकारस्य एयादेशेलोपोव्यो॑रिति यलोपः । कित्त्वादादिवृद्धिरिति भावः ।