चटकाया ऐरक्

4-1-128 चटकायाः ऐरक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्

Sampurna sutra

Up

'तस्य अपत्यम्' (इति) चटकायाः ऐरक्

Neelesh Sanskrit Brief

Up

'तस्य अपत्यम्' अस्मिन् अर्थे 'चटका'शब्दात् ऐरक् प्रत्ययः भवति ।

Kashika

Up

चटकाया अपत्य ऐरक् प्रत्ययो भवति। चाटकैरः॥ चटकाच्चेति वक्तव्यम्॥ चटकस्यापत्यं चाटकैरः॥ स्त्रियामपत्ये लुग् वक्तव्यः॥ चटकाया अपत्यं स्त्री चटका॥

Siddhanta Kaumudi

Up

।<!चटकस्येति वाच्यम् !> (वार्तिकम्) ॥ लिङ्गविशिष्टपरिभाषया स्त्रिया अपि । चटकस्य चटकाया वा अपत्यं चाटकैरः ।<!स्त्रियामपत्ये लुग्वक्तव्यः !> (वार्तिकम्) ॥ तयोरेव स्त्र्यपत्यं चटका । अजादित्वाट्टाप् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<चटकाया ऐरक्>> - चटकायाः । चटकाशब्दादपत्ये ऐरक्प्रत्ययः स्यादित्यर्थः । ननु स्त्रीलिङ्गनिर्देशात्पुंलिङ्गान्न स्यादित्यत आह — चटकादिति । सूत्रे 'चटकाया' इत्यपनीयचटका॑दिति वाच्यमित्यर्थः । तर्हि स्त्रीलिङ्गान्न स्यादत आह — लिङ्गेति । स्त्रिया अपीति । स्त्रीलिङ्गादप्यैरगित्यर्थः । तयोरिति । चटकस्य चटकायटाश्चेत्यर्थः । ननु चटकेति कथं, जातित्वान्ङीष्प्रसङ्गादित्यत आह — अजादित्वादिति ।

Padamanjari

Up

स्त्रीलिङ्गनिर्देशात्पुंल्लिङ्गान्न प्रसज्यत इत्याह - चटकाच्चेति वक्तव्यमिति । एवं च पुंल्लिङ्गनिर्देश एव कर्तव्यः, लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादपि भविष्यति, तथा तु न कृतमित्येव । स्त्रियामपत्ये लुग्वक्तव्य इति । चटकाया अपत्यमिति । चटकस्यापीति द्रष्टव्यम् । चटकेति ।'लुक्तद्धितलुकि' इति टापो लुकि कृते पुनरजादिलक्षणष्टाप् कर्तव्यः ॥