4-1-127 कुलटायाः वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् ढक् इनङ्
index: 4.1.127 sutra: कुलटाया वा
'तस्य अपत्यम्' (इति) कुलटायाः ढक् , इनङ् (आदेशः) वा
index: 4.1.127 sutra: कुलटाया वा
'तस्य अपत्यम्' अस्मिन् अर्थे 'कुलटा'शब्दात् ढक्-प्रत्ययः भवति, तथा ढक्-प्रत्यये कृते कुलटा-शब्दस्य विकल्पेन इनङ्-आदेशः भवति ।
index: 4.1.127 sutra: कुलटाया वा
कुलान्यटतीति कुलता। पररूपं निपातनात्। कुलटायाः अपत्ये ढक् प्रत्ययो भवति, तत्सन्नियोगेन च वा इनङादेशो भवति। आदेशार्थं वचनं, प्रत्ययश्च पूर्वेण एव सिद्धः। कौलटिनेयः, कौलटेयः। या तु कुलान्यटन्ती शीलं भिनत्ति, ततः क्षुद्राभ्यो वा 4.1.131 इति परत्वाड् ढ्रका भवितव्यम्। कौलटेरः।
index: 4.1.127 sutra: कुलटाया वा
इनङ्मात्रं विकल्प्यते ढक् तु नित्यः पूर्वेणैव । कौलटिनेयः - कौलटेयः । सती भिक्षुक्यत्र कुलटा । या तु व्यभिचारार्थं कुलान्यटति तस्याः क्षुद्राभ्यो वा <{SK1137}> इति पक्षे ढ्रक् । कौलटेरः ॥
index: 4.1.127 sutra: कुलटाया वा
कुलान्यटतीति कुलटेति । मूलविभुजादिषु दर्शनात्कः प्रत्ययः । पचाद्यच् तु न लभ्यते, अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेनेत्यण्प्रसङ्गात् । या तु कुलान्यटन्ती शीलं भिनतीति । एकत्र कुले प्रविष्टा स्वैरिणी या कुलान्तरमटति सा दुः शीला कुलटेत्यर्थः । क्षुद्राभ्यो वेति परत्वादिति । क्षुद्राःउअङ्गहीनाः शीलहीनाश्च । या पुनर्भिक्षालिप्सया सुशीलापि कुलान्यटति, तस्या इह ग्रहणम् ॥