कल्याण्यादीनामिनङ्

4-1-126 कल्याण्यादीनाम् इनङ् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् ढक्

Sampurna sutra

Up

'तस्य अपत्यम्' (इति) कल्याणी-आदीनाम् इनङ् (आदेशः), ढक् प्रत्ययः

Neelesh Sanskrit Brief

Up

'तस्य अपत्यम्' अस्मिन् अर्थे कल्याण्यादिगणस्य शब्देभ्यः ढक् प्रत्ययः भवति, तथा एतेषाम् शब्दानाम् 'इनङ्' आदेशः अपि जायते ।

Kashika

Up

कल्याणी इत्येवमादीनां शब्दानामपत्ये ढक् प्रत्ययो भवति, तत्सन्नियोगेन चेनङादेशः। स्त्रीप्रत्ययान्तानामादेशार्थं ग्रहणम्, प्रत्ययस्य सिद्धत्वाद्, अन्येषामुभयार्थम्। काल्याणिनेयः। सौभागिनेयः। दौर्भागिनेयः। <<हृद्भगसिन्ध्वन्ते०>> ७.३.१९ इत्युभयपदवृद्धिः॥ कल्याणी। सुभगा। दुर्भगा। बन्धकी। अनुदृष्टि। अनुसृष्टि। जरती। बलीवर्दी। ज्येष्ठा। कनिष्ठा। मध्यमा। परस्त्री॥

Siddhanta Kaumudi

Up

एषामिनङादेशः स्यात् ढक् च । काल्याणिनेयः । बान्धकिनेयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कल्याण्यादीनामिनङ्>> - काल्याणिनेय इति । कल्याण्या अपत्यमिति विग्रहः । बान्धकिनेय इति । बन्धक्या अपत्यमिति विग्रहः । अत्र गणे स्त्रीप्रत्ययान्ता एव पठन्ते । तेभ्यो ढक्सिद्ध एव इनङेव तु विधीयते ।

Padamanjari

Up