भ्रुवो वुक् च

4-1-125 भ्रुवः वुक् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् ढक्

Sampurna sutra

Up

'तस्य अपत्यम्' (इति) भ्रुवः वुक् (आगमः), ढक् च प्रत्ययः

Neelesh Sanskrit Brief

Up

'तस्य अपत्यम्' अस्मिन् अर्थे 'भ्रू'शब्दात् ढक् प्रत्ययः भवति, भ्रूशब्दस्य च 'वुक्' आगमः अपि भवति ।

Kashika

Up

भ्रूशब्दादपत्ये ढक् प्रत्ययो भवति, तत्सन्नियोगेन च वुगागमः। भ्रौवेयः॥

Siddhanta Kaumudi

Up

चाड्ढक् । भ्रौवेयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<भ्रुवो वुक् च>> - भ्रुवो वुक् च । चाड्ढगिति । भ्रूशब्दादपत्ये ढक् स्यात्प्रकृतेर्वुगागमश्च । वुकि ककार इत् । उकार उच्चारणार्थछः । कित्त्वादन्तावयवः । भ्रौवेय इति । भ्रूर्नाम काचित्, तस्या अपत्यमिति विग्रहः । ढकि एयादेसे प्रकृतेर्वुकि आदिवृद्धिः । वुगभावे तु ऊकारस्य वृद्धौ आवादेसे 'भ्रावेय' इति स्यात् ।

Padamanjari

Up