4-1-124 विकर्णकुषीतकात् काश्यपे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् ढक्
'तस्य अपत्यम्' (इति) काश्यपे विकर्ण-कुषीतकात् ढक्
काश्यपकुलस्य निर्देशे 'तस्य अपत्यम्' अस्मिन् अर्थे विकर्णशब्दात् कुषीतकशब्दात् च ढक् प्रत्ययः भवति ।
विकर्णशब्दात् कुषीतकशब्दात् च काश्यपेऽपत्यविशेषे ढक् प्रत्ययो भवति। वैकर्णेयः। कौषीतकेयः। काश्यप इति किम् ? वैकर्णिः। कौषीतकिः॥
अपत्ये ढक् । वैकर्णेयः । कौषीतकेयः । अन्ये वैकर्णिः । कौषीतकिः ॥
<<विकर्णकुषीतकात् काश्यपे>> - विकर्णकुषीत । अपत्ये ढगिति । शेषपूरणम् ।काश्यप एवे॑ति नियमार्थं शुभ्रादिभ्यः पृथक् पाठः ।