अश्वादिभ्यः फञ्

4-1-110 अश्वादिभ्यः फञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोत्रे

Sampurna sutra

Up

'तस्य गोत्रे अपत्यम्' (इति) अश्वादिभ्यः फञ्

Neelesh Sanskrit Brief

Up

गोत्रापत्यस्य निर्देशार्थमश्वादिगणस्य शब्देभ्यः फञ्-प्रत्ययः भवति ।

Kashika

Up

आङ्गिरस इति निवृत्तम्। अश्वादिभ्यो गोत्रापत्ये फञ् प्रत्ययो भवति। आश्वायनः। आश्मायनः। ये त्वत्र प्रत्ययान्ताः पठ्यन्ते, तेभ्यः सामर्थ्याद् यूनि प्रत्ययो विज्ञायते॥ अश्व। अश्मन्। शङ्ख। बिद। पुट। रोहिण। खर्जूर। खर्जूल। पिञ्जूर। भडिल। भण्डिल। भडित। भण्डित। भण्डिक। प्रहृत। रामोद। क्षत्र। ग्रीवा। काश। गोलाङ्क्य। अर्क । स्वन। ध्वन। पाद। चक्र। कुल। पवित्र। गोमिन्। श्याम। धूम। धूम्र। वाग्मिन्। विश्वानर। कुट। वेश। शप आत्रेये (ग०सू० ६९)। नत्त। तड। नड। ग्रीष्म। अर्ह। विशम्य। विशाला। गिरि। चपल। चुनम। दासक। वैल्य। धर्म। आनडुह्य। पुंसिजात। अर्जुन। शूद्रक। सुमनस्। दुर्मनस्। क्षान्त। प्राच्य। कित। काण। चुम्प। श्रविष्ठा। वीक्ष्य। पविन्दा। आत्रेय भारद्वाजे (ग०सू० ७०)। कुत्स। आतव। कितव। शिव। खदिर। भारद्वाज आत्रेये (ग०सू० ७१)॥

Siddhanta Kaumudi

Up

गोत्रे । आश्वायनः ॥ (गणसूत्रम् -) पुंसि जाते ॥ पुंसीति तु प्रकृतिविशेषणम् । जातस्य गोत्रापत्यं जातायनः । पुंसि इति किम् ? जाताया अपत्यं जातेयः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अश्वादिभ्यः फञ्>> - अआआदिभ्यः । गोत्रे इति । शेषपूरणमिदम् । 'आङ्गिरसे' इति निवृत्तम् । आआआयन इति । अआस्य गोत्रापत्यमिति विग्रहः । इञपवादः फञ् । पुंसि जाते इति । गणसूत्रम् । प्रकृतिविशेषणमिति । पुंसि विद्यमानो यो जातशब्दस्तस्माद्गोत्रे फञित्यर्थः । जातेय इति । स्त्रीब्यो ढक् ।

Padamanjari

Up

ये त्वत्र गोत्रप्रत्ययान्ताः पठ।ल्न्त इति । वैल्य, आनडुह्य, आत्त्रेय - इत्येते । तत्र बैल्यशब्द'वृद्धेत्कोसलाजादाञ्ञ्यङ्' इति ञ्यङ्न्तः, विलिर्नाम राजर्षैः, आनडुह्यशब्दो गर्गादियञन्तः, आत्त्रेयः ठितश्चानिञःऽ इति ढगन्तः । शय आत्त्रेये इति । शयशब्दात्फञ् भवति आत्त्रेयश्चेत्, शायायनः । आत्त्रेयादन्यत्र शायिः, अनृषित्वादिञ्, बाह्वादिर्वा । अन्ये त्वणमेव प्रत्युदाहरन्ति । पुंसि जात इति । पुंसीति प्रकृतिविशेषणम्, जातस्यापत्यं जातायनः । स्त्रियां तु जाताया अपत्यं जातेय इति ढगेव भवति, अन्यथा लिङ्गविशिष्टपरिभाषया फञेव स्यात् । आत्त्रेय भरद्वाजे इति । आत्त्रेयायनो भवति भारद्वाजश्चेत्, अन्यत्रात इञः'ण्यक्षत्रिय' इति लुक् । भारद्वाजात्त्रेये इति । अत्रिगोत्रजो यदा भारद्वाजगोत्रजेन पुत्रत्वेन स्वीक्रियते तदा प्रत्ययः । स ह्यत्त्रेयश्च भवति भारद्वाजस्य च गोत्रं भवति । भारद्वाजायन आत्त्रेयश्चेद्, भारद्वाजोऽन्यः, बिदाद्यञेव भवति ॥