4-1-107 कपिबोधात् आङ्गिरसे प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोत्रे यञ्
'तस्य गोत्रे अपत्यम्' (इति) कपिबोधात् आङ्गिरसे यञ्
आङ्गिरसकुलवाची यः 'कपि'शब्दः 'बोध'शब्दः च, तस्मात् गोत्रापत्यस्य निर्देशार्थम् यञ् प्रत्ययः भवति ।
कपिबोधशब्दाभ्यामाङ्गिरसेऽपत्यविशेषे गोत्रे यञ् प्रत्ययो भवति। काप्यः। बौध्यः। आङ्गिरस इति किम्? कापेयः। बौधिः। कपिशब्दो गर्गादिषु पठ्यते। तस्य नियमार्थं वचनम्। आङ्गिरसे यथा स्यात्। लोहितादिकार्यार्थश्च गणे पाठः। काप्यायनी॥
गोत्रे यञ्स्यात् । काप्यः । बौध्यः । आङ्गरसे किम् ? कापेयः । बौधिः ॥
<<कपिबोधादाङ्गिरसे>> - कपिबोधादा । गोत्रे यञ्स्यादिति । शेषपूरणमिदं । कपिशब्दाद्बोधशब्दाच्च आङ्गिरसात्मके गोत्रे गम्ये यञ्स्यादित्यर्थः । कापेय इति । अत्र गोत्रस्य अनाङ्गिरसत्वाद्यञभावे 'इतश्चानिञः' इति ढक् । बौधिरिति । अत्राप्यनाङ्गिरसत्वाद्यञभावे ऋष्यणं बाधित्वा बाह्वादित्वादिञिति भावः । कपेर्गर्गादौ पाठेऽपि आङ्गिरस एवेति नियमार्थं ग्रहणम् । तस्य गर्गादौ पाठस्तु लोहितादिकार्यार्थः । काप्यायनी । बोधशब्दात्तु अप्राप्ते विधिः ।
कापेय इति । ठितश्चानिञःऽ इति ढक् । बौधिरिति । अनृषित्वादिञ्, बाह्वादिर्वा ॥