4-1-104 अनृषि आनन्तर्ये बिदादिभ्यः अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोत्रे
'तस्य गोत्रे अपत्यम्' (इति) बिदादिभ्यः अञ्, 'तस्य अनन्तरे अपत्यम्' (इति) अनृषि अञ्
गोत्रापत्यस्य निर्देशार्थम् बिदादिगणस्य शब्देभ्यः अञ्-प्रत्ययः भवति । परन्तु बिदादिगणे विद्यमानाः ये शब्दाः ऋषिवाचकाः न सन्ति, तेषां विषये अनन्तरापत्ये एव अञ् प्रत्ययः भवति ।
गोत्र इत्येव। बिदादिभ्यो गोत्रापत्येऽञ् प्रत्ययो भवति। बैदः। और्वः। ये पुनरत्रानृषिशब्दाः पुत्रादयः, तेभ्योऽनन्तरापत्य एव भवति। पौत्रः। दौहित्रः। अनृष्यानन्तर्य इत्यस्यायमर्थः — अनृषिभ्योऽनन्तरे भवतीति। यद्ययमर्थः, ऋष्यपत्यनैरन्तर्य प्रतिषेधो न कृतःस्यात्? तत्रेदं न सिध्यति — इन्द्रभूः सप्तमः काश्यपानाम् (तु० — वं० ब्रा० २.२४)। अनन्तरापत्यरूपेणैव ऋष्यणाभिधानं भविष्यति। अवश्यं चैतदेवं विज्ञेयम्। ऋष्यपत्यनैरन्तर्यविषये प्रतिषेधे विज्ञायमाने कौशिको। विश्वामित्र इति दुष्यति। गोत्र इत्येव। बैदिः। ननु च ऋष्यणा भवितव्यम्? बाह्वादिराकृतिगणः, तेनेञेव भवति॥ बिद। उर्व। कश्यप। कुशिक। भरद्वाज। उपमन्यु। किलालप। किदर्भ। विश्वानर। ऋष्टिषेण। ऋतभाग। हर्यश्व। प्रियक। आपस्तम्ब। कूचवार। शरद्वत्। शुनक। धेनु। गोपवन। शिग्रु। बिन्दु। भाजन। अश्वावतान। श्यामाक। श्यमाक। श्यापर्ण। हरित। किन्दास। वह्यस्क। अर्कलूष। वध्योष। विष्णुवृद्ध। प्रतिबोध। रथन्तर। रथीतर। गविष्ठिर। निषाद। मठर। मृद। पुनर्भू। पुत्र। दुहितृ। ननान्दृ। परस्त्री परशुं च (ग०सू० ६७)॥
एभ्योऽञ् गोत्रे, ये त्वत्रानृषयः पुत्रादयस्तेभ्योऽनन्तरे । सूत्रे स्वार्थे ष्यञ् । बिदस्य गोत्रापत्यं बैदः । अनन्तरो बैदिः, बाह्वादेराकृतिगणत्वादिञ् । पुत्रस्यापत्यं पौत्रः । दौहित्रः ॥
एभ्योऽञ् गोत्रे। ये त्वत्रानृषयस्तेभ्योऽपत्येऽन्यत्र तु गोत्रे। बिदस्य गोत्रं बैदः। बैदौ। बिदाः। पुत्रस्यापत्यं पौत्रः। पौत्रौ। पौत्राः। एवं दौहित्रादयः॥
<<अनृष्यानन्तर्ये बिदादिभ्योऽञ्>> - अनृष्यानन्तर्ये ।अनृषी॑ति लुप्तपञ्चमीकम् । बिदादिभ्योऽञिति द्विरावर्तते । तथा चअनृष्यानन्तर्ये विदादिभ्योऽ॑ञिति कृत्स्नमेकं वाक्यं ।बिदादिभ्योऽ॑ञिति वाक्यान्तरं । तत्र द्वितीयं वाक्यं व्याचष्टे — एभ्योऽञ्गोत्रे इति । गोत्रे विवक्षिते विदादिभ्योऽञ्स्यादित्यर्थः ।अथ प्रथमं वाक्यं कृत्सनसूत्रं व्याचष्टे — ये त्विति । अनृषिभ्यो विदादिभ्योऽनन्तरापत्येऽञ्स्यादित्यक्षरार्थः । विदादौ हि ऋषयोऽनृषयश्च पठिताः । तत्र येऽनृषयस्तेभ्योऽनन्तरापत्येऽञिति फलितमिति भावः । नन्वानन्तर्ये इति श्रवणादनन्तर इति कथमित्यत आह — सूत्रे स्वार्थे ष्यञिति ।अनन्तरशब्दा॑दिति शेषः । चतुर्वर्णादित्वादिति भावः । बिदस्य गोत्रापत्यं बैद इति । बिदस्य ऋषित्वात्ततो गोत्र एवाऽञिति भावः । ऋष्यणोऽपवादः । स्वरे विशेषः । नन्वनन्तरापत्येऽञभावे इञपवाद ऋष्यणेवोचित इति कथमनन्तरो वैदिरित्यत आह — बाह्वादेरिति । बिदादिगणस्थादनृषेरनन्तरात्येऽञमुदाहरति — पौत्रो दौहित्र इति । पुत्रस्यानन्तरापत्यमिति, दुहितुरनन्तरापत्यमिति च विग्रहः । यथायथमणिञोपरपवादेऽञ् ।
गोत्र इत्येवेति । एतेन येऽत्र ऋषिशब्दा बिदौर्वप्रभृतयस्तेभ्यो गोत्र एवान्यथा स्यादिति गोत्र इत्येतदिहानुवर्तनीयमिति दर्शयति - ये पुनरित्यादि । कथं पुनर्गोत्राधिकारे सत्ययमर्थो लभ्यते ? इत्यत्राह - अनृष्यानन्तर्य इत्यस्यायमर्थ इति । ठनृषिऽ इति पञ्चम्या लुका निर्देशः, ठानन्तर्येऽ इति स्वार्थेष्यञ् । एवं च पौत्रा इत्यादावनन्तरस्यैवाभिधानम्, न गोत्रस्य, नापत्यसामान्यस्य च । यद्ययमर्थ इति । अस्मिन् ह्यर्थेऽनृषिभ्योऽनन्तरापत्ये विध्यर्थमिदं भवति, ततश्च ऋष्यपत्यनैरन्तर्ये, ऋषयश्च तेऽपत्यानि च ऋष्यपत्यानि, तेषां नैरन्तर्ये, ऋषिरूपाण्यपत्यानि निरन्तराणि यत्र तस्मिन्विषये प्रतिषेधो न कृतः स्यात्, तत्र को दोषः ? इत्यत्राह - तत्रेदमिति । कश्यप ऋषिस्तस्यापत्यमप्यृषिः, एवम्'सप्त नैरन्तर्येण ऋषयस्तेषां सप्तम इन्द्रहूर्नाम तत्र काश्यपानाम्' इति प्रयोगो नोपपद्यते; अञि सति'यञञोश्च' इति लुक्प्रसङ्गात् । तस्माद् ठनृष्यानन्तर्येऽ इत्यस्य ऋषीणामानन्तर्येऽव्यवधाने प्रत्ययो न भवतीत्ययमर्थो व्याख्येय इति भावः । प्रयोगं तावदुपपादयति - अनन्तरापत्यरूपेणेति । अपत्यसामान्यरूपेणेत्यर्थः । न पुनरृष्यणनन्तरापत्ये विधीयते । तत्र यथा ठभून्नृपःऽ इत्यादौ वस्तुतो भूतविशेषेऽपि सामान्यविवक्षया लुग् भवति, तद्वदिहापि वस्तुतो गोत्रेऽपि तद्रूपतिरस्कारेणापत्यसामान्यरूपविवक्षया ऋष्यण्भवतीत्यर्थः । किं पुनः कारणमियं क्लिष्टकल्पनाऽऽश्रीयते ? इत्याह - अवश्य चैतदेवं विज्ञेयमिति । ऋषीणामपत्यानां नैरन्तर्यं विषयो यस्य प्रतिषेधस्य स तथोक्तः । कौशिको विश्वामित्र इति दुष्यतीति । कि कारनम् ? विश्वामित्रस्तपस्तेपे - नानृषिः स्यामपि तु ऋषिरेवस्यामिति, तत्र भवानृषिः सम्पन्नः; स पुनस्तपस्तेपे - नानृषेः पुत्रः स्यामिति, तत्र भावन् गाधिरप्यृषिः सम्पन्नः; स पुनस्तपस्तेपे - नानृषेः पौत्रः स्यामिति, तत्र भवान्कुशिकोऽपि ऋषिः सम्पन्नः । तदेतदृष्यानन्तर्यं सम्भवति । परस्त्री परशुं चेति । द्वितीयानिर्देशादापद्यते इति शेषः । परस्त्रीशब्दः प्रत्ययमुत्पादयति, परशुं चादेशमापद्यते, परस्त्रिया अपत्यं पारशवः, ब्राह्मणस्य शूद्रायामूढायामुत्पन्नः, सा च जातितः वरस्त्री भवति । यस्तु परभार्यायामुत्पन्नः पारस्त्रैणेयः स भवति कल्याण्यादिः, अनुशतिकादिश्च । पारशव इत्यत्र पूर्वोतरपदसम्प्रमोहादनुशतिकादिकार्याभावः ॥