द्रोणपर्वतजीवन्तादन्यतरस्याम्

4-1-103 द्रोणपर्वतजीवन्तात् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोत्रे फक्

Sampurna sutra

Up

'तस्य गोत्रे अपत्यम्' (इति) द्रोण-पर्वत-जीवन्तात् फक् अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

द्रोण, पर्वत, जीवन्त - एतेभ्यः शब्देभ्यः गोत्रापत्यस्य निर्देशार्थम् विकल्पेन फक् प्रत्ययः भवति ।

Kashika

Up

गोत्र इत्येव। द्रोणादिभ्यः प्रातिपदिकेभ्यो गोत्रापत्येऽन्यतरस्यां फक् प्रत्ययो भवति। इञोऽपवादः। द्रौणायनः, द्रौणिः। पार्वतायनः, पार्वतिः। जैवन्तायनः, जैवन्तिः। कथमनन्तरोऽश्वत्थामा द्रौणायन इत्युच्यते? नैवात्र महाभारतद्रोणो गृह्यते। किं तर्हि? अनादिः। तत इदं गोत्रे प्रत्ययविधानम्। इदानीन्तनात् तु श्रुतिसामान्यादध्यारोपेण तथाभिधानं भवति॥

Siddhanta Kaumudi

Up

एभ्यो गोत्रे फग्वा । द्रौणायनः- द्रौणिः । पार्वतायनः- पार्वतिः । जैवन्तायनः- जैवन्तिः । अनादिरिह द्रोणः । अश्वत्थाम्न्यनन्तरे तूपचारात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<द्रोणपर्वतजीवन्तादन्यतरयाम्>> - द्रोणपर्वत । अनादिरिति । अस्वत्थाम्नः पिता यो महाभारते कलेरादौ प्रसिद्धः,तदपेक्षया अन्य एवायमनादिद्रोण इत्यर्थः । अआत्थाम्नीति । द्रोणाचार्यस्यानन्तरापत्ये अआत्थाम्नि 'द्रौणायन' इति प्रयोग इत्यर्थः । तदिदंबाह्वादिभ्यश्चे॑ति सूत्रे भाष्ये स्पष्टम् ।

Padamanjari

Up

पूर्वमुक्तम् -गोत्राधिकारश्च शिवादिभ्योऽण् इति यावदिति, इहाप्युक्तम् - गोत्र इत्येवेति, तत्र नोदयति - कथमिति । नैवात्रेति । यस्य ग्रहणमूरीकृत्य भवानानन्तर्ये दोषमाह, स नैव गृह्यत इत्येवशब्दस्यार्थः । महाभारतेद्रोणोमहाभारतद्रोणः । अनादिरिति । इदानीमेव ह्युक्तम् - बाह्वादिप्रभृतिष्वित्यादि । नन्वेवं प्रयोगस्यात्यन्तमनुपपतिः ? इत्यत आह - इदानीं त्विति । अर्वाचीनादित्यर्थः, न पुनर्महाभारतद्रोणो वृत्तिकारेण समानकालः; अनादेरिदानीन्तनस्य च द्रोण इति श्रुतिः समाना । तत्रानादिद्रोणस्य ये वंश्या अश्वत्थाम्ना समानकालास्ते द्रोणायना इत्युच्यन्ते । तत्र यद् दृष्ट्ंअ गोत्रत्वं तदश्वत्थाम्न्यपि द्रोणशब्दावाच्यापत्यत्वात् स्खलितबुद्धयः प्रतिपतारोऽध्यारोपयन्ति । तेनाध्यारोपेणाअश्वत्थामनि तथा द्रौणायन इत्येतद् गोत्रप्रत्ययेनाभिधानं भवति ॥