4-1-102 शरद्वच्छुनकदर्भात् भृगुवत्साग्रायणेषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् गोत्रे फक्
'तस्य गोत्रे अपत्यम्' (इति) शरद्वत्-शुनक-दर्भात् भृगु-वत्स-आग्रायणेषु फक्
शरद्वत्-शब्दात् भृगुगोत्रस्य विषये, शुनक-शब्दात् वत्सगोत्रस्य विषये, तथा दर्भ-शब्दात् आग्रायणगोत्रस्य विषये गोत्रापत्यस्य निर्देशं कर्तुम् फक् प्रत्ययः भवति ।
गोत्र इत्येव। शरद्वत् शुनक दर्भ इत्येतेभ्यो गोत्रापत्ये फक् प्रत्ययो भवति यथा — संख्यं भृगुवत्साग्रायणेष्वर्थेष्वपत्यविशेषेषु। शारद्वतायनो भवति भार्गवश्चेत्। शारद्वतोऽन्यः। शौनकायनो भवति वात्स्यश्चेत्। शौनकोऽन्यः। दार्भायणो भवत्याग्रायणश्चेत्। दार्भिरन्यः। शरद्वच्छुनकशब्दौ बिदादी ४.१.१०४। ताभ्यामञोऽपवादः फक्॥
गोत्रे फक् । अञिञोरपवादः । आद्यौ बिदादी । शारद्वतायनो भार्गवश्चेत् । शारद्वतोऽन्यः । शौनकायनो वात्स्यश्चेत् । शौनकोऽन्यः । दार्भायणः आग्रायणश्चेत् । दार्भिरन्यः ॥
<<शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु>> - शरद्वच्छुनक । शेषपूरणेन सूत्रं व्याचष्टे — गोत्रे फगिति । आद्यौ विदादी इति । शरद्वच्छुनकशब्दौ विदादी । अतस्तदुभयविषयेऽञपवाद इत्यर्थः । दर्भविषये त्विञोऽपवाद इति स्पष्टमेव । दर्भः — कस्चिदृषिः । ऋष्यणं बाधित्वा बाह्वादित्वादिञ् । आग्रायणश्चेदिति । अग्रो नाम कश्चिदृषिः । नडादिफगन्तोऽयम् ।
शरद्वदादीनां भृग्वादिवंशप्रभवानां कृत्रिमा अपि पुत्राः सन्ति, स्ववंशप्रभवा अपि, तत्रापत्यविशेषणं क्रियते । तत्र भृगुः शरद्वतोऽपत्यं न भवति; पूर्वभावित्वात् । एवं शुनकस्य वत्सः, तस्माद्भार्गंवश्च वात्स्यश्च आग्रायणश्चेति द्वन्द्वे युगपदधिकरणवचनतया वर्तिपदस्य बहुषु वृतेरत्रिभृग्विति'यञञोश्च' इति च गोत्रप्रत्ययस्य लुक्, तदाह - भार्गवश्चेद्वात्स्यश्चेदिति । दार्भिरिति । दर्भशब्द ऋषिवचनो न भवति, बाह्वादिषु वा पाठयः ॥