इतश्च लोपः परस्मैपदेषु

3-4-97 इतः च लोपः परस्मैपदेषु प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लेटः वा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

लेट इत्येव। लेट्संबन्धिन इकारस्य परस्मैपदविषयस्य लोपो भवति। वानुवृत्तेः पक्षे श्रवणमपि भवति। जोषि॑ष॒त् (ऋ० २.३५.१)। तारिषत् (ऋ० १.२५.१२)। मन्दिषत्। न च भवति — पता॑ति दि॒द्युत् (ऋ० ७.२५.१)। उद॒धिं च्या॑वयाति (तै०सं० ३.५.५.२)। परस्मैपदग्रहणमिड्वहिमहिङां मा भूत्॥

Siddhanta Kaumudi

Up

लेटस्तिङामितो लोपो वा स्यात्परस्मैपदेषु ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

परस्मैपदग्रहणमित्यादि । अन्यथा टेरेत्वस्यावकाशः - अन्ये लकाराः, लेट।ल्पीकारादन्यत्र इतो लोपस्य - परस्मैपदानि; इडादिषूभयप्रसङ्गे परत्वादितो लोपः स्यात् ॥