वैतोऽन्यत्र

3-4-96 वा एतः अन्यत्र प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लेटः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

लेट इत्येव। लेट्संबन्धिन एकारस्य वैकारादेशो भवति। अन्यत्रेत्यनन्तरो विधिरपेक्ष्यते। <<आत ऐ>>३.४.९५ इत्येतद्विषयं वर्जयित्वा एत ऐ भवति। सप्ताहानि शासै। अहमेव पशूनामीशै (काठ०सं० २५.१)। मद॑ग्रा ए॒व वो॒ ग्रहा॑ गृह्यान्तै॒ (तै०सं० ६.४.७.२)। मद्देव॒त्या॑न्ये॒व वः॒ पात्रा॑ण्युच्यान्तै॒ (तै०सं० ६.४.७.२)। न च भवति — यत्र॒ क्व॑ च ते॒ मनो॒ दक्षं॑ दधस॒ उत्त॑रम् (ऋ० ६.१६.१७)। अन्यत्रेति किम्? मन्त्रयैते। मन्त्रयैथे॥

Siddhanta Kaumudi

Up

लेट एकारस्य ऐस्याद्वा आत ऐ - <{SK3429}> इत्यस्य विषयं विना । पशूनामीशै । ग्रहा गृह्यान्तै । अन्यत्र किम् । सुप्रयसा मादयैते (सुप्र॒यसा॑ मा॒दयै॑ते) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

एतद्विषयमिति । षष्ठीसमासः । एवंविषयमिति तु युक्तः पाठः । उदाहरणानि ठुपसंवादाशङ्कयोश्चऽ इत्यत्र व्युत्पादितानि । दधस इति ।'थासः से' , शपः श्नुः, अट्,'घोर्लोपो लेटि वा' इत्याकारलोपः ॥