आत ऐ

3-4-95 आतः ऐ प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लेटः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

लेट इत्येव। लेट्संबन्धिन आकारस्य ऐकारादेशो भवति। प्रथमपुरुषमध्यमपुरुषात्मनेपद — द्विवचनयोः। मन्त्रयैते। मन्त्रयैथे। करवैते। करवैथे। आटः कस्माद् न भवति? विधानसामर्थ्यात्॥

Siddhanta Kaumudi

Up

लेट आकारस्य ऐ स्यात् । सुतेभिः सुप्रयसा मादयैते (सु॒तेभिः॑ सुप्र॒यसा॑ मा॒दयै॑ते) । आतामित्याकारस्य ऐकारः । विधिसामार्थ्यादाट ऐत्वं न । अन्यथा हि ऐटमेव विदध्यात् । यो यजाति यजात इत् (यो यजा॑ति॒ यजा॑त॒ इत्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

करवैते इति ।'च्छन्दस्युभयथा' इति सार्वधातुकत्वाद्विकरणः, आर्द्धधातुकत्वान् ङ्त्वाभावे इविकरणस्य गुणः, करोतेश्चोत्वाभावः, पवैते, अश्नवैथे, प्रवैते, विग्रन्थैथे ॥