3-4-7 लिङर्थे लेट् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् छन्दसि
छन्दस्यन्यतरस्यामिति वर्तते। लिङर्थे, यत्र लिङ् विधीयते विध्यादिः, <<हेतुहेतुमतोर्लिङ्>> ३.३.१५६ इत्येवमादिः, तत्र छन्दसि विषयेऽन्यतरस्यां लेट् प्रत्ययो भवति। जोषि॑ष॒त् (ऋ० २.३५.१)। तारिषत् (ऋ० १.२५.१२)। मन्दिषत्। नेता इन्द्रो नेषत् (शा०श्रौ० ७.९.१)। तक्षिषत्। पता॑ति दि॒द्युत् (ऋ० ७.२५.१)। प्र॒जाप॑तिर् उद॒धिं च्या॑वया॒ति (तै०सं०३.५.५.२)॥
विध्यादौ हेतुहेतुमद्भावादौ च धातोर्लेट् स्याच्छन्दसि ॥
जोषिषदिति ।'जुषी प्रीतिसेवनयोः' अनुदातेत्, व्यत्ययेन परस्मैपदम्, ठितश्च लोपः परस्मैपदेषुऽ,'लेटो' डाटौऽ इति तिपोऽडागमः,'सिब्बहुलं लेटि' इति सिप्, इडागमः । तारिषदिति । सिब्विधौ बहुलं णिद्वद्भाव उक्तः, ततो वृद्धिः । पतातीति ।'पत्लृ गतौ' , तिप आडागमः ॥