ताभ्यामन्यत्रोणादयः

3-4-75 ताभ्याम् अन्यत्र उणादयः प्रत्ययः परः च आद्युदात्तः च धातोः कृत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उणादयः शब्दास्ताभ्यामपादानसंप्रदानाभ्यामन्यत्र कारके भवन्ति। कृत्त्वात् कर्तर्येव प्राप्ताः कर्मादिषु कथ्यन्ते। ताभ्यामिति संप्रदानप्रत्यवमर्शार्थम्। अन्यथा ह्यपादानमेव पर्युदस्येत, अनन्तरत्वात्। कृषितोऽसौ कृषिः। तनित इति तन्तुः। वृत्तमिति वर्त्म। चरितं चर्म॥

Siddhanta Kaumudi

Up

सम्प्रदानपरामर्शार्थं ताभ्यामिति । ततोऽसौ भवति तन्तुः । वृत्तं तदिति वर्त्म । चरितं तदिति चर्म ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

ननु च ठन्यत्रोणादयःऽ इत्यप्युक्ते प्रकृतत्वादेव ताभ्यामन्यत्रेति विज्ञास्यते ? अत आह - सम्प्रदानार्थ इति । कृषित इत्यादिना कर्मणि वृत्तिं दर्शयति । अत्रेडागमश्चिन्त्यः । एवं तनित इत्यत्राअपि । केचिदाहुः -'यस्य विभाषा' इतीट्प्रतिषेधोऽनित्यः, कृतिनृत्योरीदित्करणात् । तद्धि'श्वीदितो निष्ठायाम्' इतिट्प्रतिषेधार्थं क्रियते तत्र'से' सिचि कृतिऽ इति विभाअषितेट्त्वादेव'यस्य विभाषा' इतीट्प्रतिषेधो भविष्यतीति किमीदित्करणेन । अपर आह - चुरादावदन्तौ कृपितनी पठितव्याविति ॥