3-4-74 भीमादयः अपादाने प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
भीमादयः शब्दा अपादाने निपात्यन्ते। उणादिप्रत्ययान्ता एते। <<श्याधूसूभ्यो मक्>>(प०उ० १.१४५) <<भियः षुग् वा>>(प०उ० १.१४८) इत्येवमादयः। <<ताभ्यामन्यत्रोणादयः>> ३.४.७५ इति पर्युदासे प्राप्ते निपातनमारभ्यते। भीमः। भीष्मः। भयानकः। वरुः। चरुः। भूमिः। रजः। संस्कारः। संक्रन्दनः। प्रपतनः। समुद्रः। स्रुवः। स्रुक्। खलतिः॥
भीमः । भीष्मः । प्रस्कन्दनः । प्ररक्षः । मूर्खः । खलतिः ॥
उणादिप्रत्ययान्ता एत इति । बाहुल्यादेतदुक्तम्, प्रस्कन्दनप्रपतनयोरप्यौणादिकत्वात् । ताभ्यामन्यत्रोणादय इति पर्युदासे प्राप्त इति । यद्यप्यसत्यस्मिन्सूत्रेऽपादानस्य प्रकृतत्वाताभ्यामिति निर्देशो नोपपद्यो तथाप्ययमर्थस्तावतत्र वक्तव्यः - ततोऽपादानाच्चान्यत्रोणादय इति, ततश्च स्यादेव पर्युदास इत्यर्थः ॥