दाशगोघ्नौ सम्प्रदाने

3-4-73 दाशगोघ्नौ सम्प्रदाने प्रत्ययः परः च आद्युदात्तः च धातोः कृत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

दाशगोघ्नौ शब्दौ संप्रदाने कारके निपात्येते। <<दाशृ दाने>> ततः पचाद्यच्। स कृत्संज्ञकत्वात् कर्तरि प्राप्तः, संप्रदाने निपात्यते। दाशन्ति तस्मा इति दाशः। आगताय तस्मै दातुं गां घ्नन्तीति गोघ्नः, अर्घार्होऽतिथिः। टगत्र निपात्यते। निपातनसामर्थ्यादेव गोघ्न ऋत्विगादिरुच्यते, न तु चण्डालादिः। असत्यपि च गोहनने तस्य योग्यतया गोघ्न इत्यभिधीयते॥

Siddhanta Kaumudi

Up

एतौ सम्प्रदानकारके निपात्येते । दशन्ति तस्मै दाशः । गां हन्ति तस्मै गोघ्नोऽतिथिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

गोघ्न इति । अत्र दानपूर्वके हनेन हन्तिर्वर्तते । अर्घार्ह इति । अर्घःउमधुपर्कः, तदङ्गत्वेन गोहननं विहितम् । एतावद् गोरालम्भनस्थानम् - अतिथिः, पितरः, विवाहश्चेति । यदि सम्प्रदाने गोघ्न इति निपात्यते चाण्डालादेरपि तेनाभिधानं प्राप्नोति, अस्मै अपि ह्यागताय गां दातुमर्हन्ति सुहृदादयः ? अत आह - निपातनसामर्थ्यादिति । असत्यपि चेति । यथाऽपचन्नपि योग्यतया'पाचकः' इत्युच्यते, तथेहापीत्यर्थः ॥