गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च

3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्तः कर्तरि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गत्यर्थेभ्यो धातुभ्योऽकर्मकेभ्यः श्लिषादिभ्यश्च यः क्तः, स कर्तरि भवति। चकाराद् यथाप्राप्तं च भावकर्मणोः। गतो देवदत्तो ग्रामम्। गतो देवदत्तेन ग्रामः। गतं देवदत्तेन। अकर्मकेभ्यः — ग्लानो भवान्। ग्लानं भवता। आसितो भवान्। आसितं भवता। श्लिष — उपश्लिष्टो गुरुं भवान्। उपश्लिष्टो गुरुर्भवता। उपश्लिष्टं भवता। शीङ् — उपशयितो गुरुं भवान्। उपशयितो गुरुर्भवता। उपशयितं भवता। स्था — उपस्थितो गुरुं भवान्। उपस्थितो गुरुर्भवता। उपस्थितं भवता। आस — उपासितो गुरुं भवान्। उपासितो गुरुर्भवता। उपासितं भवता। वस — अनूषितो गुरुं भवान्। अनूषितो गुरुर्भवता। अनूषितं भवता। जन — अनुजातो माणवको माणविकाम्। अनुजाता माणवकेन माणविका। अनुजातं माणवकेन। रुह — आरूढो वृक्षं भवान्। आरूढो वृक्षो भवता। आरूढं भवता। जीर्यति — अनुजीर्णो वृषलीं देवदत्तः। अनुजीर्णा वृषली देवदत्तेन। अनुजीर्णं देवदत्तेन। श्लिषादयस्सोपसर्गास्सकर्मका भवन्ति, तदर्थमेषामुपादानम्॥

Siddhanta Kaumudi

Up

एभ्यः कर्तरि क्तः स्यात् भावकर्मणोश्च । गङ्गां गतः । गङ्गां प्राप्तः । ग्लानः सः । लक्ष्मीमाश्लिष्टो हरिः । शेषमधिशयितः । वैकुण्ठमधिष्ठितः । शिवमुपासितः । हरिदिनमुपोषितः । राममनुजातः । गरुडमारूढः । विश्वमनुजीर्णः । पक्षे प्राप्ता गङ्गा येनेत्यादि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च>> - गत्यर्थ । गत्यर्थ, अकर्मक, श्लिष, शीङ्, स्था, आस , वस, जन, रुह, जीर्यति एषां दशानां द्वन्द्वः ।लः कर्मणि च भावे चे॑त्यतो भावे कर्मणीतिआदिकर्मणि क्तः कर्तरि चे॑त्यतः कर्तरि इति चानुवर्तते । तदाह — एभ्य इत्यादिना । कर्तरीत्येवानुवृत्तौ भावकर्मणोर्न स्यादिति तयोरप्यनुवृत्तिः । गङ्गां गत इति । कर्तरि क्तः । गङ्गां प्राप्त इति । 'आप्लृ व्याप्तौ' उपसर्गवशाद्गतौ वर्तते । अकर्मकादुदाहरति — म्लान इति । क्षीण इत्यर्थः । 'संयोगादेः' इति निष्ठानत्वम् । आश्लिष्ट इति । आलिङ्गितवानित्यर्थः । नन्वकर्मकत्वादेव सिद्धे शीङादीनां पुनग्र्रहणं व्यर्थमित्यत आह — शेषमधिशयित इति । शेषे शयितवानित्यर्थः ।अधीशीङ्स्थासाटमिति शेषः कर्म, अतो नाऽकर्मकत्वादिह प्राप्तिरिति भावः । वैकुण्ठमधिष्ठित इति । वैकुण्ठे स्थिवानित्यर्थः ।अधिशीङ्स्थासा॑मिति वैकुण्ठः कर्म । अतो नाऽकर्मकत्वादिह प्राप्तिः । शिवमुपासित इति । शिवं परिचरितवानित्यर्थ- । उपवेशनार्थकत्वे अकर्मकत्वेऽपि इह उपसर्गवशेनाऽर्थान्तरे सकर्मकत्वादकर्मकेत्यनेन न प्राप्तिरिति भावः । हरिदिनमुपोषित इति ।वसतिक्षुधो॑रिति इट् । यजादित्वात्संप्रसारणम् ।शासी॑ति षः । हरिदिने न भुक्तवानित्यर्थः । 'उपान्वध्याङ्वसः' इति हरिदिनं कर्म । ततश्चाऽकर्मकत्वाऽभावादप्राप्तिः । राममनुजात इति । अनुकृतवानित्यर्थः । अनुसृत्य जातवानिति वा ।ततश्चाऽकर्मकत्वाऽभावादप्राप्तिः । गरुडमारूढ इति । उपर्याक्रान्तवानित्यर्थः । विआमनुजीर्ण इति । हतवानित्यर्थः । व्याप्तवानिति वा । अकर्मकत्वाऽभावादप्राप्तिः । जृधातोः कर्तरि क्तः । 'ऋतः' इतित इत्त्वं । रपरत्वं । 'हलि चे ' ति दीर्घः ।रदाभ्या॑मिति नत्वं । णत्वम् । पक्षे इति । कर्तरि प्रत्ययाऽभावपक्षे इत्यर्थः ।

Padamanjari

Up

अनूषित इति ।'वसति क्षुधोरिट्' । अनुप्राप्य जातोऽनुजातः । एवमनुजीर्णः । सकर्मकेभ्यः कर्माविवक्षायां भावे क्तः ॥