3-4-71 आदिकर्मणि क्तः कर्तरि च प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
आदिकर्मणि यः क्तो विहितः, स कर्तरि भवति। चकाराद् यथाप्राप्तं भावकर्मणोः। आदिभूतः क्रियाक्षण आदिकर्म, तस्मिन्नादिकर्मणि भूतत्वेन विवक्षिते यः क्तो विहितः, तस्यायमर्थनिर्देशः। प्रकृतः कटं देवदत्तः। प्रकृतः कटो देवदत्तेन। प्रकृतं देवदत्तेन। प्रभुक्त ओदनं देवदत्तः। प्रभुक्त ओदनो देवदत्तेन। प्रभुक्तं देवदत्तेन।
आदिकर्मणि यः क्तः स कर्तरि स्यात् चाद्भावकर्मणोः ॥
<<अदिकर्मणि क्तः कर्तरि च>> - आदिकर्मणि क्तः कर्तरि च । चाद्भावकर्मणोरिति ।तयोरेव कृत्ये॑त्यतस्तदनुवृत्तेरिति भावः ।प्रकृतः कटं देवदत्तः, प्रकृतवान् कटं देवदत्तः॑ इति भाष्ये उदाहृतम् । आरभ्यमाणकरणक्रियेति बोधः ।
कर्मधारयः, कर्मशब्दश्च क्रियावचन इत्याह - आदिभूतः क्रियाक्षण आदिकर्मेति । साधनकर्म तु न गृह्यते, आदिशब्देन विशेषणात् । बहूनां समवाये आदिमध्यान्तभावः, साधनकर्म कत्वेमेवेति कि तत्रादिशब्देन । तस्मिन्नादिकर्मणि भूतत्वेन विवक्षित इति । एतेन'निष्ठा' इत्यनेनैवादिकर्मणि क्तः सिद्धः, न पुनरादिकर्मणि निष्ठा वक्तव्येति दर्शयति । आद्ये हि क्रियाक्षणे भूते समूहरूपारोपादेकदेशे समूहे चेति न्यायाद्वा धात्वर्थ एव भूतो भवतीति युक्त एव क्तः । प्रकृतः कट्ंअ देवदत इति । प्रारब्धवानित्यथः । प्रकृतं देवदतेनेति । अत्र कर्मणोऽविवक्षितत्वेन धातोरकर्मकत्वाद्भाव एव क्तः । एवं प्रभुक्तं देवदतेनेत्यत्रापि ॥