तयोरेव कृत्यक्तखलर्थाः

3-4-70 तयोः एव कृत्यर्थखलर्थाः प्रत्ययः परः च आद्युदात्तः च धातोः कृत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तयोरेव भावकर्मणोः कृत्यसंज्ञकाः क्तखलर्थाश्च प्रत्यया भवन्ति। एवकारः कर्तुरपकर्षणार्थः। कृत्याः कर्मणि — कर्तव्यः कटो भवता। भोक्तव्य ओदनो भवता। भावे — आसितव्यं भवता। शयितव्यं भवता। क्तः कर्मणि — कृतः कटो भवता। भुक्त ओदनो भवता। भावे — आसितं भवता। शयितं भवता। खलर्थाः कर्मणि — ईषत्करः कटो भवता। सुकरः। दुष्करः। भावे — ईषदाढ्यंभवं भवता। स्वाढ्यंभवं भवता। भावे चाकर्मकेभ्य इत्यनुवृत्तेस्सकर्मकेभ्यो भावे न भवन्ति॥

Siddhanta Kaumudi

Up

एतेन भावकर्मणोरेव स्युः ॥

Laghu Siddhanta Kaumudi

Up

एते भावकर्मणोरेव स्युः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तयोरेव कृत्यक्तखलर्थाः>> - तयोरेव कृत्यखलर्थाः ।लः कर्मणि च भावे चे॑ ति सूत्रोपात्ते भावकर्मणी तच्छब्देन कृत्संज्ञकतया प्राप्तकत्र्रर्थकत्वस्याऽभावमनुवदन् कृत्यसंज्ञया वैशेषिक्या कृत्संज्ञाया अबाधं गमयति ।

Padamanjari

Up

तयोर्भावकर्मणोरिति । पूर्वसूत्रे साक्षात् श्रुतयोर्भावकर्मणोस्तच्छब्देन परामर्शः, न चकारेण संनिधापितस्य कर्तुरिति भावः । अत एवोतरसूत्रे पुनः'कर्तरि च' इत्युक्तम् । यदि ह्यनन्तरवाक्ये चकारेण संनिधापितस्य कर्तुर्भावस्य चात्र इत्यवमर्शः स्यात् तत्र कर्तृग्रहणमनर्थकं स्यात् ; कर्तर्यनेनैव सिद्धत्वात् । एवकार इत्यादि । कृत्वात्कर्तरि कृत्याः प्राप्ता एवकारेण कर्तुरवकृष्यन्तेउव्यावर्त्यन्ते । ननु च तक्रकौण्डिन्यन्यायेन न कर्तुरप कर्षो भविष्यति, यथा'वडवाया वृषे वाच्ये' इत्यत्र वक्ष्यते - अपत्ये प्राप्तस्ततोऽपकृष्य वृषे विधीयते, अपत्ये त्वणेव भवतीति ? सत्यम् ; न्यायप्राप्त एवाथं एवकारेणानूद्यते । शयितमिति ।'निष्ठाशीङ्ष्विदिमिदिक्ष्विदिधृषः' इत्यकित्वाद्गुणो भवति । भावे चाकमकेभ्य इति वर्तत इति । वयं तु ब्रूमः - एवकारः कर्तुरपकर्षणाय न कर्तव्य इत्युक्तम्, तस्यात्रोपयोगः - ययोर्भावकर्मणोर्लकार उक्तस्तयोरेवान्यूनानतिरिक्तयोः कृत्यादयो भवन्तीति । यदि च सकर्मकेभ्यो भावे स्युस्तयोस्तादृशयोरेव तु न कृताः स्युरिति ॥