छन्दसि लुङ्लङ्लिटः

3-4-6 छन्दसि लुङ्लङ्लिटः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् धातुसम्बन्धे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

धातुसम्बन्ध इत्येव। छन्दसि विषये धातुसंबन्धे सर्वेषु कालेषु लुङ्लङ्लिटः प्रत्यया भवन्ति। अन्यतरस्यामिति वर्तते। तेनान्येऽपि लकारा यथायथं भवन्ति। लुङ् — शकलाङ्गुष्ठकोऽकरत्। अहं तेभ्यो॑ऽकरं॒ नमः॑(मा०सं० १६.८)। लङ् — अग्निमद्य होतारम् (शा०श्रौ० ५.२०.५) अवृणीतायं यजमानः। लिट् — अ॒द्या म॒मार॒ (ऋ० १०.५५.५)। अद्य म्रियते॥

Siddhanta Kaumudi

Up

धात्वर्थानां संबन्धे सर्वकालेष्वेते वा स्युः । पक्षे यथास्वं प्रत्ययाः । देवो देवेभिरागमत् (दे॒वो दे॒वेभि॒राग॑मत्) । लोडर्थे लुङ् । इदं तेभ्योकरं नमः (इ॒दं तेभ्यो॑करं॒ नमः॑) । लङ् । अग्निमद्य होतारमवृणीतायं यजमानः । लिट् । अद्या ममार (अ॒द्या म॒मार॑) । अद्य म्रियत इत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

उदाहरणेषु धातुसम्बन्धो मृग्यः । अकरदिति ।'कृमृदॄउहिभ्यश्च्छन्दसि' इति च्लेरङदेशः, ठृदृशोऽङ् गुणिःऽ ॥