3-4-67 कर्तरि कृत् प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
index: 3.4.67 sutra: कर्तरि कृत्
कृत्संज्ञकाः प्रत्ययाः कर्तरि कारके भवन्ति। कृदुत्पत्तिवाक्यानामयं शेषः। तत्र येषु अर्थनिर्देशो नास्ति तत्र इदमुपतिष्ठते, अर्थाकाङ्क्षत्वात्। न ख्युन्नादिवाक्येषु, साक्षादर्थनिर्देशे सति तेषाम् निराकाङ्क्षत्वात्। कारकः। कर्ता। नन्दनः। ग्राही। पचः।
index: 3.4.67 sutra: कर्तरि कृत्
कृत्प्रत्ययः कर्तरि स्यादिति प्राप्ते ॥
index: 3.4.67 sutra: कर्तरि कृत्
कृत्प्रत्ययः कर्तरि स्यात्। इति प्राप्ते -
index: 3.4.67 sutra: कर्तरि कृत्
कर्तरि कृत् - कर्तरि कृत् । अर्थनिर्देशोऽयम् । इति प्राप्ते इति । वक्यमाणतव्यदादिप्रत्ययानां कृत्संज्ञकत्वात्तेषां कर्तरि प्राप्तावित्यर्थः ।
index: 3.4.67 sutra: कर्तरि कृत्
किमर्थमिदमुच्यते ? कर्तरिकृद्वचनमनोदेशे स्वार्थविज्ञानात् । यत्र वचनेनार्थो निर्दिश्यते तत्र प्रत्यासत्या प्रकृत्यर्थ एव प्रत्ययो भवति, तद्यथा -'गुप्तिज्किद्भ्यः सन्' ,'यावादिभ्यः कन्' इति, एवमिमेकृतः स्वार्थे स्युः, स्वार्थे मा भूवन् कर्तरि स्युरिति । ननु च यमिच्छति स्वार्थे, आह तं भावे घञ् भवतीति ? तन्नियमार्थं भविष्यति - घञेव भावे नान्यः कृदिति । असति ह्यतेतस्मिन्सूत्रे घञित्येतावत्सूत्रं कर्तव्यम् - धातोर्घञ् भवतीति, तत्रानिर्दिष्टार्थत्वाद्भाव एव घञ भविष्यतीति; ततः'पदरुजविश' इति द्वितीयं सूत्रं कर्तव्यम्, ततश्च'भावे' इति न कर्तव्यम्, क्रियमाणं तु नियमार्थं भविष्यति - घञेव भावे नान्यः कृदिति, ततश्चान्यः कृद्धात्वर्थाक्षिप्ते कर्तरि भविष्यति । स्यादेतत् - कर्मादीनामपि धात्वर्थेनाक्षेपातेष्वपि कृतः स्युरिति ? न;'धः कर्मणि ष्ट्रन्' ,'करणाधिकरणयोर्ल्युट्' ,'दाशगाघ्नौ सम्प्रदाने' ,'भीमादयो' पादानेऽ इत्यत्र'ष्ट्रनेव कर्मणि नान्यः' इत्यादिको नियमो विज्ञास्यते । यद्येकं कर्मादि नियतं प्रत्ययास्त्वनियता इति कारकान्तरेऽपि ष्ठरनादयः स्युः ? नैष दोषः; एकमिदं वअक्यम् - धः कर्मणि ष्ट्रनिति, तेन च कर्मणि विधीयमानः कथं कारकान्तरेऽपि स्यात् ! द्वितीयोऽपि वा नियमो विज्ञास्यते - कर्मण्येव ष्ट्रनिति, एवं सर्वत्र । य इदानीमतोऽन्यः प्रत्ययः शेषः सोऽन्तरेणापि वचनं कर्तर्येव भविष्यति ।'कर्तरि भुवः खिष्णुच्खुकञौ' 'कर्तरि चर्षिदेवतयोः' इत्युभयत्रापि करणनिवृत्यर्था कर्तृश्रुतिर्विध्यर्थैवेति खिष्णुजादिषु कर्तृनियमो न भविष्यति । तदेव तर्हि प्रयोजनम् - स्वार्थे मा भूवन्निति ? ननु चोक्तम् -'भावे इति नियमो विज्ञास्यते' इति ? स्वार्थादन्यः स भावो धात्वर्थस्य सिद्धता नाम । शुद्धे स्वार्थे कृतः स्युः, लः कर्मणि च भावे चेति । अयं तर्हि नियमो भविष्यति - ल एव भावे इति ? नायं नियमः शक्यो विज्ञातुम्, कर्तृकर्मणोर्निर्देशेन निर्दिष्टार्थत्वात् लकाराः स्वार्थे न स्युः, ठकर्म्केभ्यःऽ इति च वक्ष्यामीत्येवमर्थमेतत्स्यात् । अतः सुष्ठूअक्तम् - कर्तरि कृद्वचनमनादेशे स्वार्थविज्ञानादिति । अत्र च द्वैधम् - एतद्वाक्यनिरपेक्षैः स्वैर्विधायकैर्वाक्यैर्विहितानां कृतां पश्चादेनेनार्थ आदिश्येत ? कृदुत्पत्तिवाक्यानां वायं शेषः स्यात् ण्वुल्तृचौ कर्तरि नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः कर्तरीति ? तत्राद्ये पक्षे यथानेन तृजादीनामर्थ आदिश्यते, तथा ख्युनादीनामप्यादिश्येत; विशेषानुपादानात् । ततश्चैतेऽप्यनेन कर्तरि च स्युः, स्वेषु स्वेषु विधिवाक्येषु करणादीनामप्युपादानात्करणादिषु च । ननु च ख्युनादिषु करणादिरर्थो विशेषविहितत्वात् कर्तुश्च बाधको भविष्यति ? न; नानावाक्यत्वात् । इह'दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्याय' इति अभिन्नकालत्वादेकं वाक्यं विशिष्टदानस्य प्रतिपादकमिति तक्रेण दधि बाध्यते । यदा तु पूर्वाह्णे ब्राह्मणभोजनप्रकरणे'दधि ब्राह्मणेभ्यो दीयताम्' इत्युच्यते, अपराह्णे तु'तक्रं कौण्डिन्याय दीयताम्' इति, न तदा बाध्यबाधकभावः । तथास्मिन्पक्षेऽपि कालभेदेन वाक्यद्वयोच्चारणाद्वाध्यबाधकभावो न लभ्यते । तस्माद् दुष्ट एवायं पक्ष इति द्वितीयं पक्षमाश्रित्याह - कृदुत्पत्तिवाक्यानामयं शेषः स्यादिति । प्रागुक्तो दोषस्तदवस्थ एव ? तत्राह - येष्वित्यादि । कुत एतदित्याह - अर्थाकाङ्क्षत्वादिति । येषु वाक्येष्वर्थो न निर्दिश्यते तान्यर्थाकाङ्क्षाणि । तथा हि -'ण्वुल्तृचौ भवतः' इत्युक्तेऽर्थविषया आकाङ्क्षा जायते - क्वैतौ भवतीति ?'कर्तरि कृत्' इत्यस्याकाङ्क्षा भवति - कः कृत् कर्तरि भवतीति ? अतस्तृजादिविध्यनुपस्थाने शेषशेषिणोरुभयोरप्याकाङ्क्षापूतये ततस्तत्रैवोपतिष्ठत इत्यर्थः । ख्युनादिवाक्येष्विति । उपतिष्ठत इत्यनुषङ्गः । कारणमाह - साक्षादर्थनिर्देशे सति तेषां निराकाङ्क्षत्वादिति । न च रक्तपटन्यायेनाकाङ्क्षोत्थापनेनोप्रस्थानं युज्यते; स्वत एव साकाङ्क्षे तृजादिविध्यनुपस्थानेन शेषस्यापि चरितार्थत्वात् । रक्तः पटो भवतीत्यत्र तु पटो भवतीत्यस्य निराकाङ्क्षत्वेऽपि रक्तपदार्थस्य साकाङ्क्षत्वादाङ्क्षोत्थापनेनान्वयः । न च विदेशस्थानां कथमेकवाक्यत्वमिति वाच्यम्; शास्त्रे विदेशस्थानामप्यवान्तरवाक्यानामाकाङ्क्षावशादेकवाक्यत्वदर्शनात् । यथा - द्वितीयेऽध्याये लुगुच्यते, तस्य चतुर्थषष्ठयोरलुगपवादः'गोत्रे' लुगचिऽ, ठलुगुतरपदेऽ इति ॥