3-4-66 पर्याप्तिवचनेषु अलमर्थेषु प्रत्ययः परः च आद्युदात्तः च धातोः कृत् तुमुन्
पर्याप्तिरन्यूनता। पर्याप्तिवचनेष्वलमर्थेषूपदेषु धातोस्तुमुन् प्रत्ययो भवति। पर्याप्तो भोक्तुम्। अलं भोक्तुम्। भोक्तुं पारयति। पर्याप्तिवचनेष्विति किम्? अलं कृत्वा। अलमर्थेष्विति किम्? पर्याप्तं भुङ्क्ते। पूर्वसूत्रे शकिग्रहणमनलमर्थम्। शक्यमेवं कर्तुमिति॥
पर्याप्तिः पूर्णता । तद्वाचिषु सामर्थ्यवचनेषूपपदेषु तुमुन् स्यात् । पर्याप्तो भोक्तुं प्रवीणः कुशलः पटुरित्यादि । पर्याप्तिवचनेषु किम् । अलं भुक्त्वा । अलमर्थेषु किम् । पर्याप्तं भुङ्क्ते । प्रभूततेह गम्यते न तु भोक्तुः सामर्थ्यम् ॥
पर्याप्तिःउअन्यूनता, परिपूर्णतेत्यर्थः । अन्यूनता च द्विधा सम्भवति - भोजनस्य प्रभूततया वा, भोक्तुः समर्थतया वा, अतः सामर्थ्येनालमर्थेन विशिनष्टि । अलमर्थेषु पर्याप्तिवचनेष्विति । प्रयाप्तो भोक्तुमिति । भोजने न न्यूनीभवति समर्थ इत्यर्थः । पुर्यप्तमिति । प्रभूतमित्यर्थः । शक्यमेवं कर्तुमिति । सुकरमेतदित्यर्थः । सम्भवमात्रं वाऽत्र विवक्षितम् - सम्भवत्येवंविधस्य करणमिति ॥