शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्

3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् प्रत्ययः परः च आद्युदात्तः च धातोः कृत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शकादिषूपपदेषु अस्त्यर्थेषु वा धातुमात्रात् तुमुन् प्रत्ययो भवति। अक्रियार्थोपपदार्थोऽयमारम्भः। शक्नोति भोक्तुम्। धृष्णोति भोक्तुम्। ग्लायति भोक्तुम्। घटते भोक्तुम्। आरभते भोक्तुम्। लभते भोक्तुम्। प्रक्रमते भोक्तुम्। सहते भोक्तुम्। अर्हति भोक्तुम्। अस्त्यर्थेषु खल्वपि — अस्ति भोक्तुम्। भवति भोक्तुम्। विद्यते भोक्तुम्॥

Siddhanta Kaumudi

Up

एषूपपदेषु धातोस्तुमुन् स्यात् । शक्नोति भोक्तुम् । एवं धृष्णोतीत्यादौ । अर्थग्रहणमस्तिनैव सम्बध्यते । अनन्तरत्वात् । अस्ति भवति विद्यते वा भोक्तुम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अत्रानन्तरेणास्तिशब्देनैवार्थशब्दः सम्बद्ध्यते, शकधृषज्ञानां घटाईयोश्च पृथगुपादानात्, तदाह - शकादिषूपपदेषु अस्त्यर्थेषु वैति । तुमुन् प्रत्ययो भवतीति । भावे । अक्रियार्थोपपदार्थ आरम्भ इति ।'क्रियार्थोपपदे तुमुन्ण्वुलौ' इत्यादिनैव सिद्धत्वात् । तत्र तावत् शक्नोति भोक्तुम्, धष्णोति, जानातीति भोजने प्रावीण्यं गम्यते । ग्लायति भोक्तुमिति । तत्राशक्तिः । घटतेऽर्हतीति योग्यता । आरभते प्रक्रमत इति । भुजेरेवाद्यावस्था । लभते भोक्तुमिति । अप्रत्याख्यातं भोजनं लभते इत्यर्थः । उत्सहते भोक्तुमिति । भोजने व्याप्रियत इत्यर्थः । अस्ति भोक्तुमिति । भोजनमस्तीत्यर्थः । प्रवीणो भोक्तुम्, कुशलो भोक्तुम्, पटुअर्भोक्तुमित्यादौ पर्याप्तिविवक्षायामुतरसूत्रेण तुमुन् भवति ॥