अन्वच्यानुलोम्ये

3-4-64 अन्वचि आनुलोम्ये प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्त्वाणमुलौ भुवः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अन्वक्शब्द उपपदे भवतेर्धातोरानुलोम्ये क्त्वाणमुलौ भवतः। आनुलोम्यमनुलोमता, अनुकूलत्वम्, परचित्तानुविधानम्। अन्वग्भूयास्ते। अन्वग् भूत्वास्ते। अन्वग्भावमास्ते। आनुलोम्य इति किम्? अन्वग् भूत्वा तिष्ठति॥

Siddhanta Kaumudi

Up

अन्वक्शब्दे उपपदे भुवः क्त्वाणमुलौ स्त आनुकूल्ये गम्यमाने । अन्वग्भूय आस्ते । अन्वग्भूत्वा । अन्वग्भावम् । अग्रतः पार्श्वतः पृष्ठतो वाऽनुकूलो भूत्वा आस्त इत्यर्थः । आनुलोम्ये किम् । अन्वग्भूत्वा तिष्ठति । पृष्ठतो भूत्वेत्यर्थः ॥ इत्थं लौकिकशब्दानां दिङ्मात्रमिह दर्शितम् । विस्तरस्तु यथाशास्त्रं दर्शितः शब्दकौस्तुभे ॥ 1 ॥ भट्टोजिदीक्षितकृतिः सैषा सिद्धान्तकौमुदी । प्रीत्यै भूयाद्भगवतोर्भवानीविश्वनाथयोः ॥ 2 ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अन्वग्भूयेति । अग्रतः पार्श्वत- पृष्ठतो वाऽनुकूलो भूत्वाऽऽस्ते इत्यर्थः । अन्वग्भूत्वेति । पृष्ठतो भूत्वेत्यर्थः । अनुकूलोऽननुकूल इति शब्देन न स्पृश्यते ॥