3-4-63 तूष्णीमि भुवः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्त्वाणमुलौ
तूष्णींशब्द उपपदे भवतेर्धातोः क्त्वाणमुलौ प्रत्ययौ भवतः। तूष्णींभूय गतः। तूष्णीं भूत्वा। तूष्णींभावम्। भूग्रहणं कृञो निवृत्त्यर्थम्॥
तूष्णींशब्दे उपपदे भुवः क्त्वाणमुलौ स्तः । तूष्णींभूय । तूष्णीं भूत्वा । तूष्णींभावम् ॥