नाधाऽर्थप्रत्यये च्व्यर्थे

3-4-62 नाधार्थप्रत्यये च्व्यर्थे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्त्वाणमुलौ कृभ्वोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

नार्थो धार्थश्च प्रत्ययो यस्मात् स एवमुच्यते। नाधार्थप्रत्यये शब्दे च्वयर्थ उपपदे कृभ्वोर्धात्वोः क्त्वाणमुलौ प्रत्ययौ भवतः। अनाना नाना कृत्वा गतः, नानाकृत्य गतः। नाना कृत्वा गतः। नानाकारं गतः। विनाकृत्य गतः। विना कृत्वा गतः। विनाकारं गतः। नानाभूय गतः। नानाभूत्वा गतः। नानाभावं गतः। विनाभूय गतः। विना भूत्वा गतः। विनाभावं गतः। द्विधाकृत्य गतः। द्विधा कृत्वा गतः। द्विधाकारं गतः। द्विधाभूय गतः। द्विधा भूत्वा गतः। द्विधाभावं गतः। द्वैधंकृत्य गतः। द्वैधं कृत्वा गतः। द्वैधंकारं गतः। द्वैधंभूय गतः। द्वैधं भूत्वा गतः। द्वैधंभावं गतः। प्रत्ययग्रहणं किम्? हिरुक् कृत्वा। पृथक् कृत्वा। च्व्यर्थ इति किम्? नाना कृत्वा काष्ठानि गतः। धार्थमर्थग्रहणम्, ना पुनरेक एव <<विनञ्भ्यां नानाञौ०>>५.२.२७ इति॥

Siddhanta Kaumudi

Up

नाधार्थप्रत्ययान्ते च्व्यर्थविषये उपपदे कृभ्वोः क्त्वाणमुलौ स्तः । अनाना नाना कृत्वा नानाकृत्य । नाना कृत्वा नानाकारम् । विनाकृत्य । विना कृत्वा । विनाकारम् । नानाभूय । नाना भूत्वा । नानाभावम् । अनेकं द्रव्यमेकं भूत्वा । एकधाभूय । एकधा भूत्वा । एकधाभावम् । एकधाकृत्य । एकधा कृत्वा । एकधाकारम् । प्रत्ययग्रहणं किम् । हिरुक्कृत्वा । पृथग्भूत्वा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

नार्थो धार्थश्चेति । नाधासहचरितोऽर्थो नाधा शब्दाभ्यामुक्तः, नार्थो यस्य स नार्थः, नार्थार्थ इत्यर्थः । एतेन धार्थो व्याख्यातः । प्रत्ययो यस्मादिति । यदि पञ्चम्यां विग्रहः क्रियते, ततः प्रकृतेरुपलक्षणं नाधार्थग्रहणं स्यादिति सम्प्रत्यतदन्तत्वेऽपि प्रकृतिमात्रे प्रसङ्गः ? न प्रसङ्गः, एवं हि विनञ्सङ्ख्यास्विति वक्तव्यं स्यात्, षष्ठ।ल विग्रहः कर्तव्यः - नाधार्थः प्रत्ययो यस्य समुदायस्यावयव इति । ल्यब्लोपे वा पञ्चमी व्याख्येया यं समुदायामुद्दिश्य नाधार्थः प्रत्ययो विधीयत इति । विनाकृत्य नानाकृत्येति ।'विनञ्भ्यां नानाञौ नसह' इति नानाञौ । द्विधाकृत्येति ।'सङ्ख्याया विधार्थे धा' । द्वैधंकृत्येति ।'द्वित्र्योस्च धमुञ्' । हिरक्पृथक्शब्दौ विनार्थे । नाना कृत्वा काष्ठानि गत इति । पूर्वमेव नाना सन्ति काष्ठान्यन्यत्र कृत्वा गत इत्यर्थः । धार्थमर्थग्रहणमिति । बहवो हि धार्थाः प्रत्ययाः, तत्रासत्यर्थग्रहणे प्रत्ययस्यैव ग्रहणं स्यात्, नान्येषाम्; तदर्थानामर्थग्रहणे तु तेषामपि भवति । यश्चाधादेशो धार्थः'धमुञन्तात्स्वार्थे डदर्शनम्' इति तदर्थमर्थग्रहणम् - द्वैधकृत्य द्वैधकारं द्वैधभूय द्वैधभावमिति । धमुञादीनां तु स्थानिवद्भावादेव सिद्धं तद्विधौ ध इत्यधिकारेणादेशपक्षस्याश्रयणात् । अथ नार्थमप्यर्थग्रहणं कस्मान्न भवतीत्यत आह - ना पुनरेक एवेति । ननु च नाप्रत्ययावपि द्वौ भवतः - निरनुबन्धकः, सानुबन्धकश्चेति, तत्रासत्यर्थग्रहणे निरनुबन्धकस्यैव ग्रहणं स्यात्, नेतरस्य ? एवं मन्यते - तन्त्रावृत्यैकशेषाणामन्यतमस्याश्रयणातस्यापि भविष्यति ॥