3-4-61 स्वाङ्गे तस्प्रत्यये कृभ्वोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्त्वाणमुलौ
तस् प्रत्ययो यतः स्वाङ्गात् तदेवमुच्यते। तस्प्रत्यये स्वाङ्गवाचिन्युपपदे करोतेर्भवतेश्च धात्वोः क्त्वाणमुलौ प्रत्ययौ भवतः। यथासंख्यमत्र नेष्यते, अस्वरितत्वात्। मुखतःकृत्य गतः। मुखतः कृत्वा गतः। मुखतःकारं गतः। मुखतोभूय तिष्ठति। मुखतो भूत्वा तिष्ठति। मुखतोभावं तिष्ठति। पृष्ठतःकृत्य गतः। पृष्ठतः कृत्वा गतः। पृष्ठतःकारं गतः। पृष्ठतोभूय गतः। पृष्ठतो भूत्वा। पृष्ठतोभावाम्। स्वाङ्ग इति किम्? सर्वतः कृत्वा गतः। तस्ग्रहणं किम्? मुखीकृत्य गतः। मुखीभूय गतः। प्रत्ययग्रहणं किम्? मुखे तस्यतीति मुखतः, मुखतः कृत्वा गतः॥
मुखतःकृत्य गतः । मुखतःकृत्वा । मुखतःकारम् । मुखतोभूय । मुखतो भूत्वा । मुखतो भावम् ॥
'तस्प्रत्यये' इति बहुव्रीहिनिर्देश इत्याह - तस्प्रत्ययोयतः स्वाङ्गातदेवमुच्यत इति । न च'क्विन्प्रत्ययस्य कुः' इतिवत्कदाचितस्प्रत्ययान्तत्वेन दृष्टे संप्रत्यतदन्तेऽपि स्वाङ्ग प्रसङ्गः, तस्प्रत्ययग्रहणसामर्थ्यात् । कर्मधारयो वायम् - तस्प्रत्यये परतो यत्स्वाङ्गं तस्मिन्नुपपदे इति । वृतौ तु वस्तुमात्रं प्रदर्शितम् । यथासंख्यमत्र नेष्यत इति । व्याख्यानात् । मुखत इति । आद्यादित्वात्सप्तम्यर्थे तसिः । मुखे तस्यतीत्यादि ।'तसु उपक्षये' इत्यस्मान्मुखशब्द उपपदे ठन्येभ्योऽपि दृश्यतेऽ इति क्विप् - मुखतः, ठत्वसन्तस्य चऽ इति दीर्घो न भवति; ठधातोःऽ इति प्रतिषेधात् । प्रत्ययाप्रत्ययपरिभाषयैवात्राप्रसङ्गात् नार्थः प्रत्ययग्रहणेन ॥