तिर्यच्यपवर्गे

3-4-60 तिर्यचि अपवर्गे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृञः क्त्वाणमुलौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तिर्यक्शब्द उपपदे कृञः क्त्वाणमुलौ प्रत्ययौ भवतोऽपवर्गे गम्यमाने। अपवर्गः समाप्तिः। तिर्यक्कृत्य गतः। तिर्यक् कृत्वा गतः। तिर्यक्कारं गतः। समाप्य गत इत्यर्थः। अपवर्ग इति किम्? तिर्यक् कृत्वा काष्ठं गतः। तिर्यचीति शब्दानुकरणम्। न च प्रकृतिवदनुकरणेन भवितव्यम्, अनुक्रियमाणरूपविनाशप्रसङ्गात्। <<एतदोऽश्>>२.४.३३, <<अदसो मात्>> १.१.१२ इति॥

Siddhanta Kaumudi

Up

तिर्यक्शब्दे उपपदे कृञः क्त्वाणमुलौ स्तः समाप्तौ गम्यायाम् । तिर्यक्कृत्य तिर्यक्कृत्वा गतः । तिर्यक्कारं समाप्य गत इत्यर्थः । अपवर्गे किम् । तिर्यक्कृत्वा काष्ठं गतः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

तिर्यवकृत्येति । तिरोऽञ्चतीति ठृत्विग्ऽ इत्यादिना क्विन्,'तिरसस्तिर्यलोपे' इति तिर्यादेशः । व्युत्पत्तिमात्रं चैतत्, न त्वत्रावयवार्थोऽस्ति, समुदायो ह्ययमपवर्गे वर्तते तद्दिर्शितम् । समाप्य गत इत्यर्थ इति । तिर्यवकृत्वेति । अनृजु कृत्वा, अग्रतः स्थितं पार्श्वे क्षिप्त्वेत्यर्थः ।'तिर्यचि' इत्ययुक्तोऽयं निर्देशः, भसंज्ञायां सत्याम्, ठचःऽ इत्यकारलोपे तिरश्चीति भवितव्यम् ? अत आह - तिर्यचीति शब्दानुकरणमेतदिति । ठचऽ इत्यर्थवतोऽजित्यस्य ग्रहणम् । स चार्थो लोकप्रसिद्धो गृह्ते; ठभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताःऽ इति न्यायात् । अतोऽञ्चेः स्वार्थे वर्तमानस्याल्लोपः । एततु तत्र स्थितस्य शब्दरूपस्यानुकरणम्, तेनानुकार्येण रूपेणार्थवन्न तु लौकिकार्थेन, तेन लोपाभाव इति भावः । नन्वेवमपि'प्रकृतिबदनुकरणं भवति' इति लोपः प्राप्नोत्येवात आह - न च प्रकृतिवदनुकरणेन भवितव्यमिति । कस्मादित्याह - अनुक्रियमाणरूपविनाशप्रसङ्गादिति । यादृशं रूपमनुकर्तुमिष्ट्ंअ तादृशं न प्रतीयेत, लौकिक एव त्वर्थः प्रतीयेतेत्यर्थः । क्व च यथा प्रकृतिवदनुकरणं भवतीत्याह - एतदोऽशित्यादि । यद्यनुक्रियमाणरूपविनाशेऽपि प्रकृतिवदनुकरणं स्यात्, एतदः, अदस इत्यत्रोभयत्रापि त्यदाद्यत्वादिके प्रकृतिकार्ये सति एतस्य, अमुष्येति रूपं स्यात् । ननु प्रयोजनानुवतिं प्रमाणं ततश्चेल्लोपः प्राप्नोति कर्तव्य पवायम् ? कथम् ?'यतदेतेभ्यः' इति त्यदाद्यत्वम् , अस्यवामीयमिति यस्येति लोपः, गवित्ययमाहेत्यवादेशः, पटिति करोतीत्यनुक्रियमाणरूपविनाशे सत्यपि ठव्यक्तानुकरणस्यात इतौऽ इति पररूपत्वं वा भवति । तस्मादुभयथा निर्देशदर्शनात् क्वचित्प्रकृतिबदनुकरणं भवति, क्वचिन्नेति वाच्यम् । तथा चास्मिन्नेव सूत्रे भाष्यम् - सौत्रो निर्देश इति ॥