अस्यतितृषोः क्रियाऽन्तरे कालेषु

3-4-57 अस्यतितृषोः क्रियान्तरे कालेषु प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् द्वितीयायां

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्वितीयायामित्येव। क्रियामन्तरयति क्रियान्तरः, क्रियाव्यवधायकः। क्रियान्तरे धात्वर्थे वर्तमानाभ्यामस्यतितृषिभ्यां द्वितीयान्तेषु कालवाचिषूपपदेषु णमुल् प्रत्ययो भवति। द्व्यहात्यासं गाः पाययति। द्व्यहमत्यासं गाः पाययति। त्र्यहात्यासं गाः पाययति। त्र्यहमत्यासं गाः पाययति। द्व्यहतर्षं गाः पाययति। द्व्यहं तर्षं गाः पाययति। अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते विच्छिद्यते। अद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययतीत्यर्थः। अस्यतितृषोरिति किम्? द्व्यहमुपोष्य भुङ्क्ते। क्रियान्तर इति किम्? अहरत्यस्येषून् गतः। न गतिर्व्यवधीयते। कालेष्विति किम्? योजनमत्यस्य गाः पाययति। अध्वकर्मकमत्यसनं व्यवधायकम्, न कालकर्मकम्॥

Siddhanta Kaumudi

Up

क्रियामन्तरयति व्यवधत्त इति क्रियान्तरः । तस्मिन्धात्वर्थे वर्तमानादस्यतेस्तृष्यतेश्च कालवाचिषु द्वितीयान्तेषु उपपदेषु णमुल् स्यात् । द्व्यहात्यासं गाः पाययति । द्व्यहमत्यासम् । द्व्यहतर्षम् । द्व्यहंतर्षम् । अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते । अद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययतीत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

ठसु क्षेपणेऽ,'ञितृषा पिपासायाम्' । क्रियामन्तरयतीति क्रियान्तर इति । व्यवधानवाचिनोऽन्तरशब्दातत्करोतीति णिचि'कर्मण्यण्' । पाययतीति । पिबतेर्णिचि'शाच्छासाह्वा' इत्यादिना युक् । अत्यसनेनेत्यादि । यच्चाद्य पानं यच्च द्व्यहे गते भविता, तन्मध्यवर्तित्वादत्यसनतर्षणयोः, एतदेव स्पष्टयन्नुदाहरणस्यार्थमाह - अद्य पाययित्वेत्यादि । द्व्यहमुपोष्येति । उपपूर्वाद्वसेः क्त्वा ल्यप्, यजादित्वात्सम्प्रसारणम्,'शासिवसिघसीनां च' इति षत्वम्, अत्रोपवासेन भोजनं व्यवधीयते । अहरिति ।'कालाध्वनोः' इति द्वितीया । कृत्स्नमहरिषूनत्यस्य क्षिप्त्वा गत इत्यर्थः । योजनमत्यस्येति । क्वचित्स्रुघ्नादौ पाययित्वा तता योजनमतिक्रम्य पाययतीत्यर्थः ॥