विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः

3-4-56 विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् द्वितीयायां

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्वितीयायामित्येव। द्वितीयान्त उपपदे विश्यादिभ्यो धातुभ्यो णमुल् प्रत्ययो भवति व्याप्यमान आसेव्यमाने चार्थे गम्यमाने। विश्यादिभिः क्रियाभिरनवयवेन पदार्थानां संबन्धो व्याप्तिः। तात्पर्यमासेवा। द्रव्ये व्याप्तिः, क्रियायामासेवा। गेहानुप्रवेशमास्ते। समासेन व्याप्त्यासेवयोरुक्तत्वाद् <<नित्यवीप्सयोः>>८.१.४ इति द्विर्वचनं न भवति। असमासपक्षे तु व्याप्यमानतायां द्रव्यवचनस्य द्विर्वचनम्, आसेव्यमानतायां तु क्रियावचनस्य। तथा च वक्ष्यति — सुप्सु वीप्सा, तिङ्क्षु नित्यता (का० ८.१.४) इति। गेहंगेहमनुप्रवेशमास्ते। आसेवायाम् — गेहमनुप्रवेशमनुप्रवेशमास्ते। पति — गेहानुप्रपातमास्ते। गेहंगेहमनुप्रपातमास्ते। गेहमनुप्रपातमनुप्रपातमास्ते। पदि — गेहानुप्रपादमास्ते। गेहंगेहमनुप्रपादम्। गेहमनुप्रपादमनुप्रपादम्। स्कन्दि — गेहावस्कन्दमास्ते। गेहंगेहमवस्कन्दम्। गेहमवस्कन्दमवस्कन्दम्। व्याप्यमानासेव्यमानयोरिति किम्? गेहमनुप्रविश्य भुङ्क्ते। ननु चाभीक्ष्ण्ये णमुल् विहित एव। आसेवा चाभीक्ष्ण्यमेव। किमर्थं पुनरासेवायां णमुलुच्यते? क्त्वानिवृत्त्यर्थमिति चेत्, न, इष्टत्वात् तस्य। द्वितीयोपपदार्थं तर्हि वचनम्। उपपदसमासः पक्षे यथा स्यात्। तेन हि सत्युपपदाभावः॥

Siddhanta Kaumudi

Up

द्वितीयायामित्येव । द्वितीयान्ते उपपदे विश्यादिभ्यो णमुल् स्याद्व्याप्यमाने आसेव्यमाने चार्थे गम्ये । गेहादिद्रव्याणां विश्यादिक्रियाभिः साकल्येन सम्बन्धो व्याप्तिः । क्रियायाः पौनः पुन्यमासेवा । नित्यविप्सयोः-<{SK2140}> इति द्वित्वं तु न भवति । समासेनैव स्वभावतस्तयोरुक्तत्वात् । यद्यप्याभीक्ष्ण्ये णमुलुक्त एव तथापि उपपदसञ्ज्ञार्थमासेवायामिहपुनर्विधिः । गेहानुप्रवेशमास्ते । गेहंगेहमनुप्रवेशम् । गेहमनुप्रवेशमनुप्रवेशम् । एवं गेहानुप्रपातम् । गेहानुप्रपादम् । गेहानुस्कन्दम् । असमासे तु गेहस्य णमुलन्तस्य च पर्यायेण द्वित्वम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अनवयवेनेति । साकल्येन । पदार्थानामिति । गेहादीनाम् । तात्पर्यमिति । पौनः पुन्यमाभीक्ष्ण्यमित्यर्थः । द्रव्ये व्याप्तिरित्यादिना व्याप्त्यसेवयोर्विषयविभागं दर्शयति । गेहानुप्रवेशमिति । ननु व्याप्तौ वीप्सा गम्यते, आसेवायां च नित्यत्वमिति'नित्यवीप्सयोः' इति द्विर्वचनं प्राप्नोति, तत्कस्मान्न भवतीत्याह - समासेनेति । यद्यपि समास एतयोरर्थयोर्न विधीयते, तथापि स्वभावत एतयोस्तेनाभिदानम्, यथा - सप्तपर्वा इति, पर्वगताया वीप्सायाः - पर्वणिपर्वणि सप्त पर्णान्यस्येति । तथा च वक्ष्यतीति ।'नीत्यवीप्सयोः' इत्यत्र वक्ष्यति । भाष्यकारः । तिङ्क्षु नित्यतेति । उपलक्षणम्, ठव्ययकृत्सु चऽ इत्यपि द्रष्टव्यम् । क्त्वानिवृत्यर्थमिति चेदिति । ठाभीक्ष्ण्ये णमुल् चऽ इत्यनेन क्त्वाणमुलौ द्वावपि विहितौ, तत्र विश्यादिभ्यो णमुलेव यथा स्यात्, क्त्वाप्रत्ययो मा भूदित्येवमर्थं पुनर्ममुलुच्यत इति चेदित्यर्थः । दूषयति - नेष्टत्वादिति । इष्यते ह्यासेवायां विशिप्रभृतिभ्यः क्त्वा - गेहमनुप्रविश्यानुप्रविश्यास्त इति । द्वितीयोपपदार्थं तर्हीति । अत्र हि'द्वितीयायां च' इत्यधिकारद् द्वितीयान्तस्योपपदसंज्ञा लभ्यते, किमर्थं पुनरुपपदत्वमिष्यते ? इत्याह - उपपदसमास इति ।'तृतीयाप्रभृतीन्यन्यतरस्याम्' इति वचनात्पक्ष इत्युक्तम् । तेन हि सत्युपपदाभाव इति । सप्तमीस्थस्य कस्यचिदभावात् ॥