परिक्लिश्यमाने च

3-4-55 परिक्लिश्यमाने च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् द्वितीयायां स्वाङ्गे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

स्वाङ्गे द्वितीयायामित्येव। परिक्लिश्यमाने स्वाङ्गवाचिनि द्वितीयान्त उपपदे धातोर्णमुल् प्रत्ययो भवति। परिक्लेशः सर्वतो विबाधनम्, दुःखनम्। उरःपेषं युध्यन्ते। उरः — प्रतिपेषं युध्यन्ते। शिरःपेषम्। शिरःप्रतिपेषम्। कृत्स्नमुरः पीडयन्तो युध्यन्ते। ध्रुवार्थोऽयमारम्भः॥

Siddhanta Kaumudi

Up

सर्वतो विबाध्यमाने स्वाङ्गे द्वितीयान्ते णमुल् स्यात् । उरः प्रतिपेषं युध्यन्ते । कृत्स्नमुरः पीडयिन्त इत्यर्थः । उरोविदारं प्रतिचस्करे नखैः । ध्रुवार्थमिदम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

परिक्लिश्यमान इति ।'क्लिशू विबाधने' इत्येतस्यैतद् रूपम्, न तु'क्लिश उपतापे' इत्यस्य, परिश्च सर्वतो भाव इत्याह - परिक्लेशः सर्वंतो विबाधनमिति ॥