स्वाङ्गेऽध्रुवे

3-4-54 स्वाङ्गे अध्रुवे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् द्वितीयायां

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

द्वितीयायामित्येव। अध्रुवे स्वाङ्गवाचिनि द्वितीयान्त उपपदे धातोर्णमुल् प्रत्ययो भवति। अक्षिनिकाणं जल्पति। भ्रूविक्षेपं कथयति। अध्रुव इति किम्? उत्क्षिप्य शिरः कथयति। यस्मिन्नङ्गे छिन्नेऽपि प्राणी न म्रियते तदध्रुवम्। <<अद्रवं मूर्तिमत्स्वाङ्गम्>> (का० ४.१.५४)॥

Siddhanta Kaumudi

Up

द्वितीयायामित्येव । अध्रुवे स्वाङ्गे द्वितीयान्ते धातोर्णमुल् । भ्रूविक्षेपं कथयति । भ्रुवं विक्षेपम् । अध्रुवे किम् । शिर उत्क्षिप्य । येन विना न जीवनं तद्ध्रुवम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

स्वाङ्गलक्षणं चतुर्थे वक्ष्यते - अद्रवं मूर्तिमदित्यादि । अक्षिनिकाणमिति ।'कण निमीलने' चुरादिनिपूर्वः । उत्रिप्य शिरः कथयतीति । ननु च ध्रुवमिति नित्यमुच्यते - ध्रुवा द्यौर्ध्रुवा पृथिवीति यथा; अध्रुवमनित्यम्, शिरश्चाप्यनित्यमेव, प्राणिनामेवानित्यत्वादत आह - यस्मिन्नङ्ग इति । अयं भावः - विशेषणसामर्थ्यात्प्रकर्ष आश्रीयते, प्रकर्षेण यदध्रुवमिति । प्रकर्षश्च जीवत्यपि प्राणिनि कदाचिदभाव इति ॥