3-4-52 अपादाने परीप्सायाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल्
परीप्सा त्वरा। परीप्सायां गम्यमानायामपादान उपपदे धातोर्णमुल् प्रत्ययो भवति। शय्योत्त्थायं धावति। शय्याया उत्त्थायम्। एवं नाम त्वरते यदवश्यं कर्तव्यमपि नापेक्षते। शय्योत्त्थानमात्रमाद्रियते। रन्ध्रापकर्षं पयः पिबति। भ्राष्ट्रापकर्षमपूपान् भक्षयति। परीप्सायामिति किम्? आसनादुत्त्थाय गच्छति॥
परीप्सा त्वरा । शय्योत्थायं धावति ॥
परीप्सा त्वरिति ।'ञित्वरा सम्भ्रमे' घटादिः,'घटादयः षितः' , षित्वादङ् । शय्योत्थायमिति । ठुदः स्थास्तम्भोःऽ इति तिष्ठतिसकारस्य तकारः, पूर्वद्यौक् । अवश्यकर्तव्यमपीति । अक्षिप्रक्षालनादिकम् । द्वितीयायां परीप्सायामित्येवेति । ठनुदातं पदेमकवर्जम्ऽ इत्यत्रापि परीप्सा भवत्येव, कथम् ? परिभाषेयम्, पदग्रहणं च परिभाषार्थम् । तेनोदातः स्वरितो वा यत्र विधीयते तत्र तत्समकालमेवैकमचं वर्जयित्वा परिशिष्टमनुदातं कर्तव्यम्, न विलम्बितव्यमिति ॥