3-4-51 प्रमाणे च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् तृतीयायाम् सप्तम्यां
तृतीयासप्तम्योरित्येव। प्रमाणमायामः, दैर्घ्यम्। प्रमाणे गम्यमाने तृतीयासप्तम्योरुपपदयोर्धातोर्णमुल् प्रत्ययो भवति। द्व्यङ्गुलोत्कर्षं खण्डिकां छिनत्ति। द्व्यङ्गुल उत्कर्षम्, द्व्यङ्गुलेनोत्कर्षम्। त्र्यङ्गुलोत्कर्षम्॥
तृतीयासप्तम्योरित्येव । द्व्यङ्गुलोत्कर्षं खण्डिकां छिनत्ति । द्व्यङ्गुलेन द्व्यङ्गुले वोत्कर्षम् ॥