समासत्तौ

3-4-50 समासत्तौ प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् तृतीयायाम् सप्तम्यां

Kashika

Up

index: 3.4.50 sutra: समासत्तौ


सप्तम्याम् तृतीयायाम् इति वर्तते। समासत्तिः सन्निकर्षः। समासत्तौ गम्यमानायां तृतीयासप्तम्योः उपपदयोः धातोः णमुल् प्रत्ययो भवति। केशग्राहं युध्यन्ते, केशेषु ग्राहम्, केशैर्ग्राहम्। हस्तग्राहम्, हस्तेषु ग्राहम्, हस्तैर्ग्राहम्। युद्धसंरम्भादत्यन्तं सन्निकृष्यन्ते इत्यर्थः।

Siddhanta Kaumudi

Up

index: 3.4.50 sutra: समासत्तौ


तृतीयासप्तम्योर्धातोर्णमुल् स्यात्सन्निकर्षे गम्यमाने । केशग्राहं युध्यन्ते । केशेषु गृहीत्वा । हस्तग्राहम् । हस्तेन गृहीत्वा ॥

Padamanjari

Up

index: 3.4.50 sutra: समासत्तौ


सप्तम्यां तृतीयायामित्यनुवर्तते इति । पूर्वसूत्रेऽपि स्वरितत्वादेव तृतीयाऽनुवर्तते, सप्तम्यां तु तस्या निवृत्तिर्मा विज्ञायीति चकारः क्रियते । तेन चानुकृष्टमुतरत्र नानुवर्तते इति न चोदनीयम् । युद्धसंरम्भादिति । कोपादिना मनः क्षोभपूर्वको वाक्कायविकारःउसंरम्भः, युद्धार्थः संरम्भो युद्धसंरम्भः, अश्वघासादिवत्षष्ठीसमासः । अत्यन्तं सन्निकृष्य युद्ध्यन्ते इत्यर्थ इति । सन्निकर्षप्रतिपादनपरमेतत्केशग्रहणं भवतु, मा वा भूदिति ॥