3-4-49 सप्तम्यां च उपपीडरुधकर्षः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् णमुल् तृतीयायाम्
उपशब्दः प्रत्येकमभिसंबध्यते। उपपूर्वभ्यः पीडरुधकर्षेभ्यः सप्तम्यन्त उपपदे, चकारात् तृतीयान्त उपपदे, णमुल् प्रत्ययो भवति। पार्श्वोपपीडं शेते। पार्श्वयोरुपपीडम्। पार्श्वाभ्यामुपपीडम्। व्रजोपरोधं गाः स्थापयति। व्रज उपरोधम्। व्रजेनोपरोधम्। पाण्युपकर्षं धानाः संगृह्णाति। पाणावुपकर्षम्। पाणिनोपकर्षम्। कर्षतेरिदं ग्रहणम्, न कृषतेः॥
उपपूर्वेभ्यः पीडादिभ्यः सप्तम्यन्ते तृतीयान्ते चोपपदे णमुल् स्यात् । पार्श्वोपपीडं शेते । पार्श्वयोरुपपीडम् । पार्श्वाभ्यामुपपीडम् । व्रजोपरोधं गाः स्थापयति । व्रजेन व्रजे वा उपरोधम् । पाण्युपकर्षं धानाः संगृह्णाति । पाणावुपकर्षम् । पाणिनोपकर्षम् ॥
उपशब्दः प्रत्येकमिति । पीडादीनां समाहारद्वन्द्वं कृत्वोपपूर्वः'पीडरुधकर्ष' इत्युतरपदलोपी समासः । सौत्रः पुंल्लिंङ्गनिर्देशः । करणाधिकरणविवक्षाभेदेनोपपदेषु विभकर्तिदूयम् । कर्षतेरिति भौवादिकस्य, न कृषतेरिति; तौदादिकस्य शपा निर्देशात् । शपा निर्देशस्तु विहितगुणस्योच्चारणाद्विज्ञायते । सूत्रे तु पञ्चम्यर्थे प्रथमा, किञ्च स्याद्यदि तौदादिकस्य ग्रहणं स्यात्, यावतोभयोरपि विलेखनार्थत्वान्नार्थभेदो नापि रूपभेदः ? यद्याप्युभयोरपि विलेखने पाठः, तथापि तौदादिकस्य क्षेत्रविषये विलेखने वृत्तिः - पञ्चभिर्हलैः कृषतीति । तेन क्षेत्रे उपकृष्य हलेनोपकृष्येति तौदादिकात् क्त्वाप्रत्यय एव भवति, न णमुल् ॥